________________
शतकं - ४, वर्ग:-, उद्देशकः - १०
२१७
कापोती कापोती तैजसीं तैजसी पद्मां पद्माशुक्लां प्राप्य तद्रूपत्वादिना परिणमतीति वाच्यं, अथ कियद्दूरमयमुद्देशको वाच्यः ? इत्याह- 'जावे' त्यादि । मू. (२१३)
परिणामवन्नरसगंधसुद्ध अपसत्थसंकलिठ्ठण्हा । गतिपरिणामपदेसोगाहवग्गणाठाणमप्पबहुं ॥
वृ. 'परिणामे' त्यादिद्वारगाथोक्तद्वारपरिसमाप्तिं यावदित्यर्थः, तत्र परिणामो दर्शित एव, तथा 'वन्न'त्ति कृष्णादिलेश्यानां वर्णो वाच्यः, सचैवम्- 'कण्हलेसा णं भंते ए केरिसिया वन्त्रेणं पन्नत्ते ? ' त्यदि, उत्तरं तु कृष्णलेश्या कृष्णा जीमूतादिवत् नीललेश्या नीला भृङ्गादिवत् कापोती कापोतवर्णा खदिरसारादिवत् तैजसी लोहिता शशकरक्तादिवत् पद्मा पीता चम्पकादिवत् शुक्ला २ शङ्खादिवदिति ।
तथा 'रस'त्ति रसस्तासां वाच्यः, तत्र कृष्णा तिक्तरसा निम्बादिवत् नीला कटुकरसा नागरवत् कापोती कषायरसा अपक्वबदरवत् तेजोलेश्या अम्लमधुरापक्वाम्रादिफलवत् पद्मलेश्या कटुकषायमधुररसा चन्द्रप्रभासुरादिवत् शुक्ललेश्या मधुररसा गुडादिवत्, 'गंध'त्ति लेश्यानां गन्धो वाच्यः, तत्राद्यास्तिस्रो दुरभिगन्धाः अन्त्यास्तु तदितराः 'सुद्ध' त्ति अन्त्याः शुद्धा आद्यास्त्वितराः ‘अप्पसत्थ’त्ति आद्या अप्रशस्ता अन्त्यास्तु प्रशस्ताः 'संकिलिट्ठ' त्ति आद्याः सङ्क्लिष्टा अन्त्यास्त्वितराः 'उण्ह' त्ति अन्त्या उष्णाः स्निग्धाश्च आद्यास्तु शीता रूक्षाश्च 'गति' त्ति आद्या दुर्गतिहेतवोऽन्त्यस्तु सुगतिहेतवः 'परिणाम' त्ति लेश्यानां कतिविधः परिणामः ? इति वाच्यं ।
तत्रासौ जघन्यमध्यमोत्कृष्टभेदात्त्रिधा उत्पातादिभेदाद्वा त्रिधेति 'पएस' त्ति आसां प्रदेशा वाच्यास्तत्र प्रत्येकमनन्तप्रदेशिका एता इति 'ओगाह' त्ति अवगाहना आसां वाच्या तत्रैता असङ्घयातप्रदेशावगाढाः ‘वग्गण’त्तिवर्गणा आसांवाच्याः, तत्र वर्गणाः कृष्णलेश्या - दियोग्यद्रव्यवर्गणाः, ताश्चानन्ता औदारिकादिवर्गणावत्, 'ठाण'त्ति तारतम्येन विचित्राध्यवसायनिबन्धनानि कृष्णादिद्रव्यवृन्दानि तानि चासङ्केययानि अध्यवसायस्यानानामसङ्ख्यातत्वादिति, 'अप्पबहु' ति लेश्यास्थानानामल्पबहुत्वं वाच्यं तच्चैवम्- 'एएसि णं भंते! कण्हलेस्साठाणाणं जाव सुक्कलेसाठाणाण य जहन्नगाणं दव्वट्टयाए ३ कयरेरहिंतो अप्पा वा ४ ।
गोयमा ! सव्वत्थोवा जहन्नगा काउलेस्साठाणा दव्वट्टयाए जहन्नगा नीललेस्साठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा कण्हलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा तेउलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा पम्हलेसाठाणा दव्वट्टयाए असंखेज्जगुणा जहन्नगा सुक्कलेस्साठाणा दव्वठ्ठयाए असंखेज्जगुणा' इत्यादीनि ॥
मू. (२१४) सेवं भंते! सेवं भंते! त्ति ॥
शतकं - ४ उद्देशकः-१० समाप्तः
स्वतः सुबोधेऽपि शते तुरीये, व्याख्या मया काचिदियं विद्दब्धा । दुग्धे सदा स्वादुतमे स्वभावात्, क्षेपो न युक्तः किमु शर्करायाः । शतकं - ४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता भगवती अङ्गसूत्रे चतुर्थः शतकस्य टीका परिसमाप्ता ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org