SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ३/-/१/१५५ वृ. 'वइरोयणिंदे 'त्ति दाक्षिणात्यासुरकुमारेभ्यः सकाशाद्विशिष्टं रोचनं दीपनं येषामस्ति ते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्रः- परमेश्वरो वैरोचनेन्द्रः । 'साइरेगं केवलकप्पं 'ति औदीच्येन्द्रत्वेन बलेर्विशिष्टतरलब्धिकत्वादिति । 'एवं जाव थनियकुमार'त्ति धरणप्रकरणमिव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणान्यध्येयानि तेषु चेन्द्रनामान्येतद्भाथानुसारतो वाच्यानि 119 11 "चमरे १ धरणे २ तह वेणुदेव ३ हरिकंत ४ अग्गिसीहे य ५ । पुन्ने ६ जलकंतेवि य ७ अमिय ८ विलंबे य ९ घोसे य १० ॥ - एते दक्षिणनिकायेन्द्राः, इतरे तु “बलि १ भूयानंदे २ वेणुदालि ३ हरिसह ४ ऽग्गिमानव ५ वसिट्ठे ६ । जलप्प ७ अमियवाहणे ८ पभंजण ९ महाघोसे १० ॥ १६८ एतेषां च भवनसङ्ख्या “चउतीसा १ चउचत्ता २" इत्यादिपूर्वोक्तगाथाद्वयदवसेया, सामानिकात्मरक्षसङ्ख्या चैवम् 119 11 "चउसट्टी सट्ठी खल छच्च सहस्सा उ असुरवज्जाणं । सामानिया उ एए चउग्गुणा आयरक्खा उ ॥ अग्रमहिष्यस्तु प्रत्येकं घरणादीनां षट्, सूत्राभिलापस्तु धरणसूत्रवत्कार्यः, 'वाणमंतरजोइसियावि' त्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रतिनिकायं दक्षिणोत्तरभेदेन इन्द्रस्यातां तद्यथा 119 11 “काले य महाकाले १ सुरूव पडिरूव २ पुन्नभद्दे य । अमरवइ मानिभद्दे ३ भीमे य तहा महाभीमे ४ ॥ किंनर किंपुरिसे ५ खलु सप्पुरिसे चेव तह महापुरिसे ६ । अइकाय महाकाए ७ गीयरई चेव गीयजसे ८ ॥ ॥ २ ॥ एतेषां ज्योतिष्काणां च त्रायस्त्रिंश लोकपालाश्च न सन्तीति ते न वाच्याः, सामानिकास्तु चतुः सहस्रसङ्ख्याः, एतच्चतुर्गुणाश्चात्मरक्षा अग्रमहिष्यश्चतन इति, एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूति पृच्छति । उदीच्यांश्चन्द्रं च वायुभूति । तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि, औदीच्येषु च चन्द्रे च सातिरेकं जम्बूद्वीपमित्यादि च वाच्यं यच्चेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तर- मुपजीव्येति भावनीयमिति, तत्र कालेन्द्रसूत्राभिलाप एवम् 'काले णं भंते ! पिसाइंदे पिसायराया केमहिड्डीए ६ केवइयं च णं पभू विउव्वित्तए ?, गोमा ! काले णं महिड्डी ६ से णं तत्थ असंखेज्जाणं नगरवाससयसहस्साणं चउन्हं सामानियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं अन्नेसिं च बहूणं पिसायाणं देवाणं देवीणय आहेवच्चं जाव विहरइ, एवंमहिड्डिए ६ एवतियं चणं पभू विउव्वित्तए जाव केवलकप्पं जंबूद्दीवं २ जाव तिरियं संखेज्जे दीवसमुद्दे' इत्यादि, शक्रप्रकरणे 'जाव चउन्हं चउरासीण' मित्यत्र यावत्करणादिदं दृश्यम्- 'अट्ठण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपालाणं तिन्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं'ति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy