________________
शतकं-१, वर्गः-, उद्देशकः - १
न्यायमाश्रित्यादितः प्रथमोद्देशकार्यप्रपञ्चो वाच्यः, तस्य च गुरुपर्वक्रमलक्षणं सम्बन्धमुपदर्शयन् भगवान् सुधर्म्मस्वामी जम्बूस्वामिनमाश्रित्येदमाह
मू. (५) तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुणसिलए नामं चेइए होत्था, सेणिए राया, चेल्लणा देवी वृ. अथ कथमिदमवसीयते यदुत-सुधर्म्मस्वामी जम्बूस्वामिनमभि संबन्धग्रन्थमुक्तवान्इति ?, उच्यते, सुधर्म्मस्वामिवाचनाया एवानुवृत्तत्वात्, आह च "तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा " सुधर्म्मस्वामिनश्च जम्बूस्वाम्येव प्रधानः शिष्योऽतस्तमाश्रित्येवं वाचना प्रवृत्तेति, तथा षष्ठाङ्गे उपोध्घात एवं दृश्यते यथा किल सुधर्म्मस्वामिनं प्रति जम्बूनामा प्राह
“जइ णं भंते! पंचमस्स अंगस्स विवाहपन्नत्तीए समणेणं भगवया महावीरेणं अयमठ्ठे पन्नत्ते, छठ्ठस्स णं भंते! के अट्ठे पन्नत्ते ?" त्ति, तत एवमिहापि सुधर्मैव जम्बूनामानं प्रत्युपोदघातमवश्यमभिहितवानित्यवसीयत इति । अयं चोपोद्घातग्रन्थो मूलटीकाकृता समस्तं शस्त्रमाश्रित्य व्याख्यातोऽप्यस्वाभिः प्रथमोद्देशकमाश्रित्य व्याख्यास्यते, प्रतिशतं प्रत्युद्देशकमुपोदघातस्येह शास्त्रेऽनेकधाऽभिधानादिति, अयं च प्राग् व्याख्यातो नमस्कारादिकोग्रन्थो वृत्तिकृता न व्याख्यातः कुतोऽपि कारणादिति ।
'ते काले 'ति ते इति प्राकृत शैलीवशात्तमस्मिन् यत्र तन्नगरमासीत्, णंकारोऽन्यत्रापि वाक्यालङ्कारार्थोयथा ‘इमाणंभंते! पुढवी' त्यादिषु 'काले' अधिकृतावसर्पिणीचतुर्थविभागलक्षण इति, 'तेणं' ति तस्मिन् यत्रासौ भगवान् धर्मकथामकरोत् 'समए णं' ति समये - कालस्यैव विशिष्टे विभागे, अथवा तृतीयैवेयं, ततस्तेन कालेन हेतुभूतेन तेन समयेन हेतुभूतेनैव 'रायगिहे 'त्ति एकारः प्रथमैकवचनप्रभवः 'कयरे आगच्छइ दित्तरूवे” इत्यादाविव, ततश्च राजगृहं नाम नगरं 'होत्थ' त्ति भवत् ।
नन्विदानीमपि तन्नगरमस्तीत्यतः कथमुक्तममवदिति ?, उच्यते, वर्णकग्रन्थोक्तविभूतियुक्तं तदैवाभवत् न तु सुधर्म्मस्वामिनो वाचनादानकाले, अवसर्पिणीत्वात्कालस्य तदीयशुभभावानां हानिभावात् । 'वन्नओ' त्ति इह स्थानके नगरवर्णको वाच्यः, ग्रन्थगौरवभयादिह तस्यालिखितत्वात्, स चैवम्-“रिद्धत्थिमियसमिद्धे" ऋद्धं पुरभवनादिभिर्वृद्धं स्तिमितं-स्थिरं स्वचक्रपरचक्रादिभयवर्जितत्वात् समृद्धं-धन धान्यादिविभूतियुक्तत्वात्, ततः पदत्रयस्य कर्म्मधारयः, 'पमुइयजणजावए' प्रमुदिताः हृष्टाः प्रमोदकारणवस्तूनां सद्भावाज्जना नगरवास्तव्यलोका जानपदाश्चजनपदभवास्तत्रायाताः सन्तो यत्र तत् प्रमुदितजनजानपदमित्यादिरौपपातिकात् सव्याख्यानोऽत्र दृश्यः । ‘तस्स णं’ति षष्ठयाः पञ्चम्यर्थत्वात्तस्माद्राजगृहान्नगरात् 'बहिय'त्ति बहिस्तात् 'उत्तरपुरच्छिमे’त्ति उत्तरपौरस्त्ये ‘दिसीभाए' त्ति दिशां भागो दिग्रूपो वा भागो गगनमण्डलस्य दिग्भागस्तत्र 'गुणसिलकं' नाम 'चेइयं' ति चितेर्लेप्यादिचयनस्य भावः कर्म्म वेति चैत्यं-सज्जाशब्दत्वाद्देवबिम्बं तदाश्रयत्वात्तद्गृहमपि चैत्यं तच्चेह व्यन्तरायतनं न तु भगवतामर्हतमायतनं 'होत्थ' त्ति बभूव, इह च यन्न व्याख्यास्यते तव्प्रायः सुगमत्वादित्यवसेयमिति ।
•
मू. (६) ते णं काले णं ते णं समए णं समणे भगवं महावीरे ।
आइगरे तित्थगरे सहसंबुद्धे परुसुत्तमे पुरिससीहे पुरिसवरपुंडरीए पुरिसवरगंधहत्थीए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
११