________________
भगवतीअङ्गसूत्रं १/-/१/२ अथ प्रथमे शते ग्रन्थान्तरपरिभाषयाऽध्ययने दशोद्देशका भवन्ति, उद्देशकाश्चअध्ययनार्थदेशाभिधायिनोऽध्ययनविभागाः ॥ उद्दिश्यन्ते-उपधानविधिना शिष्यस्याचार्येण यथा-एतावन्तमध्यनभागमधीष्वे-त्येवमुद्देशास्तएवोद्देशकाः, तांश्च सुखधरणस्मरणादिनिमित्तमाद्याभिधेयाभिधानद्वारेण संग्रहीतुमि-मांगाथामाहमू. (३) रायगिह चलण दुक्खे कंखपओसे य पगंइ पुढवीओ।
जावंते नेरइए बाले गुरुए य चलणाओ॥ वृ. अधिकृतगाथार्थो यद्यपि वक्ष्यमाणोद्देशकदशकाभिगमे स्वयमेवावगम्यते तथाऽपि बालानां सुखावबोधार्थमभिधीयते
तत्र 'रायगिहेति लुप्तसप्तम्येकवचनत्वाद्राजगृहेनगरेवक्ष्यमाणोद्देशकदशकस्यार्थो भगवता श्रीमहावीरेण दर्शित इति व्याख्येयम्, एवमन्यत्रापीष्टविभक्त्यन्तताऽवसेया।
'चलण'त्ति चलनविषयः प्रथमोद्देशकः 'चलमाणे चलिए'इत्याद्यर्थनिर्णयार्थ इत्यर्थ :१
'दुक्खे'त्तिदुःखविषयोद्वितीयः 'जीवोभदन्त ! स्वयंकृतंदुःखंवेदयती'त्यादिप्रश्ननिर्णयार्थ इत्यर्थः २ ॥ 'कंखपओसे'त्ति काङ्क्षा-मिथ्यात्वमोहनीयोदयसमुत्थोऽन्यान्यदर्शनग्रहरूपो जीवपरिणामः स एव प्रकृष्टो दोषो-जीवदूषणं काङ्क्षाप्रदोषस्तद्विषयस्तृतीयः, “जीवेन भदन्त काङ्क्षामोहनीयं कर्म कृतमित्याद्यर्थनिर्णयार्थ इत्यर्थः ३।।
चकारः समुच्चये, ‘पगइ'त्ति प्रकृतयः-कर्मभेदाश्चतुर्थोद्देशस्यार्थः, 'कति भदन्त ! कर्मप्रकृतयः?' इत्यादिश्चासौ ४॥ 'पुढवीओ'त्तिरत्नप्रभादिपृथिव्यः पञ्चमेवाच्याः, 'कति भदन्त! पृथिव्यः?' इत्यादि च सूत्रमस्य ५।
'जावंते'त्ति यावच्छब्दोपलक्षितः षष्ठः ‘यावतो भदन्त !' अवकाशान्तरात्सर्यं इत्यादिसूत्रश्चासौ ६॥ नेरइएत्तिनैरयिकशब्दोपलक्षितःसप्तः, नैरयिको भदन्त! निरयेउत्पद्यमान इत्यादि च तत्सूत्रं७।
'बालेत्ति बालशब्दोपलक्षितोऽष्टमः, एकान्तबालोभदन्त! मनुष्य' इत्यादिसूत्रश्चासौ ८।
'गुरुए'त्ति गुरुकविषयो नवमः, 'कथं मदन्त ! जीवा गुरुकत्वमागच्छन्ति?' इत्यादि च सूत्रमस्य ९ । चः समुच्चयार्थः, 'चलणाओ'त्ति बहुवचननिर्देशाच्चलनाद्यादशमोद्देशकस्यार्था ।
तत्सूत्रं चैवम्-‘अन्ययूथिका भदन्त !' एवमाख्यान्ति-चलद् अचलितमित्यादिति प्रथमशतोद्देशकसङ्ग्रहणिगाथार्थ ः। तदेवं शास्त्रोद्देशे कृतमङ्गलादिकृत्योऽपि प्रथमशतस्यादौ विशेषतो मङ्गलमाह
मू. (४) नमो सुयस्स।
वृ. 'नमो सुयस्स'त्तिनमस्कारोऽस्तु श्रुताय द्वादशाङ्गीरूपायाहप्रवचनाय, नन्विष्टदेवतानमस्कारोमङ्गलार्थोभवति, नच श्रुतमिष्टवतेतिकथमयंमङ्गलार्थ इति?,अत्रोच्यते, श्रुतमिष्टदेवतैव अर्हतां नमस्करणीयत्वात्, सिद्धवत्, नमस्कुर्वन्ति च श्रुतमर्हन्तो।
'नमस्तीर्थायेति भणनात्, तीर्थंच श्रुतं संसारसागरोत्तरणासाधारणकारणत्वात्, तदाधारत्वेनैवच सङ्घस्य तीर्थशब्दाभिधेयत्वात्, तता सिद्धानपि मङ्गलार्थमर्हन्तो नमस्कुर्वन्त्येव । ॥३॥ “काऊण नमोक्कारं सिद्धाणमभिग्गहं तु सो गिण्हे" इति वचनादिति ॥ एवं तावप्रथमशतोद्देशकाभिधेयार्थलेशः प्राग्दर्शितः, ततश्च 'यथोद्देशं निर्देश' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org