________________
ما سه | سه |
|
|
| سه
शतकं-२, वर्ग:-, उद्देशकः-१
१३५ ९ । २७
'ओरालेण'मित्यादि 'ओरालेन' आशंसार१० । ३०
हिततया प्रधानेन, प्रधानं चाल्पमपि स्यादित्याह-'विपु११ । ३३
लेन' विस्तीर्णेन बहुदिनत्वात्, विपुलं च गुरुभिरन
नुज्ञातमपि स्यादप्रयलकृतंवा स्यादत आह-‘पयत्तेणं'ति १२ | २४
प्रदत्तेनानुज्ञातेन गुरुभि प्रयतेन वा प्रयत्नवता-प्रमाद१३ | २६
रहितेनेत्यर्थः, एवंविधमपि सामान्यतः प्रतिपनं स्यादि। १४ । २८ । २
त्याह-'प्रगृहीतेन' बहुमानप्रकर्षादीश्रितेन, तथा 'कल्या१५ । ३०
णेन' नीरोगताकारणेन 'शिवेन' शिवहेतुना 'धन्येन' १६ । ३२ । २ । धर्मधनसाधुना 'माङ्गल्येन' दुरितोपशमसाधुना ‘सश्री
४०७ । ७३ । केण' सम्यकपालनात्सशोभेन उदग्रेण' उन्नतपर्यवसानेन उत्तरोत्तरं वृद्धिमतेत्यर्थ 'उदात्तेन' उन्नतभाववता 'उत्तमेणं ति ऊर्ध्व तमसः-अज्ञानाद्यत्तत्तथा तेन ज्ञानयुक्तेनेत्यर्थ उत्तमपुरुषासेवितत्वाद्वोत्तमेन ‘उदारेण' औदार्यवता निस्पृहत्वातिरेकात्, 'महानुभागेन' महाप्रभावेण 'सुक्कित्तिशुष्कोनीरसशरीरत्वात् 'लुक्खे'त्तिबुभुक्षावशेन रूक्षीभूतत्वात्
अस्थीनि चविनद्धानि यस्य सोऽस्थिचविनद्धः किटिकिटिका निर्मासास्थिसम्बन्ध्युपवेशनादिक्रियासमुत्थः शब्दविशेषस्तां भूतः-प्राप्तो यः स किटिकिटिकाभूतः 'कृशः' दुर्बलः ‘धमनीसन्ततो' नाडीव्याप्तोमांसक्षयेण दृश्यमाननाडीकत्वात्, ‘जीवंजीवेणं तिअनुस्वारस्यागमिकत्वात् ‘जीवजीवेन' जीवबलेन गच्छतिनशरीरबलेनेत्यर्थः 'भासंभासित्ते'त्याद कालत्रयनिर्देशः 'गिलाइ'त्तिग्लायति ग्लानो भवति ।
__ 'सेजहा नामए'त्ति से'त्ति यथार्थः यथेति दृष्टान्तार्थः नामेतिसम्भावनायाम् 'इति' वाक्यालङ्कारे 'कट्ठसगडिय'त्ति काष्ठभृता शकटिका काष्ठशकटिका ‘पत्तसगडिय'त्तिपलाशादिपत्रभृता गन्त्री पत्ततिलभंडगसगडिय'त्ति पत्रयुक्ततिलानांभाण्डकानांचमृन्मयभाजनानांभृता गन्त्रीत्यर्थः 'तिलकट्ठगसगडिय'त्ति क्वचित्पाठःप्रतीतार्थः एरण्डक-ट्ठसगडिय'त्ति एरण्डकाष्ठमयी एरण्डकाष्ठभृता वा शकटिका, एरण्डकाष्ठग्रहणं च तेषामसारत्वेन तच्छकटिकायाः शुष्कायाः सत्या अतिशयेन गमनादौ सशब्दत्वंस्यादिति, अङ्गारशकटिका' अङ्गारभृतागन्त्री 'उण्हे दिण्णासुक्का समाणी'ति विशेषणद्वयं काष्ठादीनामार्द्राणामेव संभवतीति यथासम्भवमायोज्यमिति हुताशन इव भस्मराशिप्रतिच्छन्नः।
'तवेणं तेएणं ति तपोलक्षणेन तेजसा, अयमभिप्रायः-यथा भस्मच्छन्नोऽग्निर्बहिर्वृत्त्या तेजोरहितोऽन्तर्वृत्त्यातु ज्वलति,एवंस्कन्दकोऽपिअपचितमांसशोणितत्वादहिनिस्तेजाअन्तस्तु शुभध्यानतपसा ज्वलतीति ॥ उक्तमेवार्थमाह
मू. (११५) तेणं कालेणं २ रायगिहे नगरे जाव समोसरणंजाव परिसा पडिगया, तएणं तस्स खंदयस्स अन० अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स इमेयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्था
-एवं खलु अहं इमेणं एयारूवेणं ओरालेणं जाव किसे धमनिसंतए जाते जीवंजीवेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org