________________
शतकं-२, वर्गः-, उद्देशकः-१
१३१ योगः। तहमेयं तितथैव तद्विशेषतः ‘अवितहमेयं सत्यमेतदित्यर्थः 'असंदिद्धमेय'तिसन्देहवर्जितमेतत् 'इच्छियमेयं तिइष्टमेतत् 'पडिच्छिमेयं तिप्रतीप्सितंप्राप्तुमिष्टम् इच्छियपडिच्छियंति युगपदिच्छप्रतीप्साविषयत्वात् तिकट्ठ'त्तिइतिकृत्वेति, अथवा 'एवमेयंभंते!' इत्यादीनिपदानि यथायोगमेकार्थान्यत्यादरप्रदर्शनायोक्तानि ।
'आलित्ते णं ति अभिविधिना ज्वलितः 'लोए'त्ति जीवलोकः 'पलित्ते णं ति प्रकर्षण ज्वलितः एवंविधश्वासौ कालभेदेनापि स्यादत उच्यते-आदीप्तप्रदीप्त इति, 'जराए मरणेणय'त्ति इह वह्निनेति वाक्यशेषो द्दश्यः 'झियायमाणंसि'त्ति ध्मायमाने ध्मायति वा, दह्यमान इत्यर्थः 'अप्पसारे'त्ति अल्पं च तत्सारं चेत्यल्पसारम् 'आयाए'त्ति आत्मना एकान्तं-विजनम् अन्तंभूभागं पच्छ पुरा यत्ति विवक्षितकालस्यपश्चात् पूर्वंच सर्वदैवेत्यर्थः 'थेज्जे'त्ति स्थैर्यधर्मयोगात् स्थैर्यो वैश्वासिको विश्वासप्रयोजनत्वात् संमतस्तत्कृतकार्याणां संमतत्वात् ‘बहुमतः' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशाद्बहुरिति वा मतो बहुमतः ‘अनुमतः' अनुविप्रियकरणस्य पश्चादपि मतोऽनुमतः ‘भंडकरंडगसमाणे'त्तिभाण्डकरण्डकम्-आभरणभाजनंतत्समान आदेयत्वादिति
मा णं सीत'मित्यादौ माशब्दो निषेधार्थ णमिति वाक्यालङ्कारार्थः, इह च स्पृशत्विति यथायोगंयोजनीयम्, अथवा मा एनमात्मानमिति व्याख्येयं, 'वाल'त्तिव्यालाः-श्वापदभुजगाः 'माणं वाइयपित्तियसंभियसन्निवाइय'त्तिइह प्रथमाबहुवचनलोपो दृश्यः 'रोगायंक'त्ति रोगाःकालसहाव्याधयः आतङ्कास्तएव सद्योघातिनः परीसहोवसग्ग'त्ति अस्यमाणमित्यनेन सम्बन्धः 'स्पृशन्तु'छुपन्तु भवन्त्वित्यर्थः 'त्तिक?' इत्यभिसन्धाय यः पालित इतिशेषः, स किम् ? इत्याह
"तंइच्छामि'त्तितत्तस्मादिच्छामि सयमेव'त्तिस्वयमेव भगवतैवेत्यर्थः प्रव्राजितं रजोहरणादिवेषदानेनात्मानमिति गम्यते, भावेवाक्तप्रत्ययस्तेनप्रव्राजनमित्यर्थः, मुण्डितंशिरोलुञ्चनेन 'सेहावियंतिसेहितं प्रत्युपेक्षणादिक्रियाकलापग्राहणतः शिक्षितं सूत्रार्थग्राहणतःतथाऽऽचार:श्रुतज्ञानादिविषयमनुष्ठानं कालाध्ययनादि गोचरो-भिक्षाटनम् एतयोः समाहारद्वन्द्वस्ततस्तदाख्यातमिच्छमीतियोगः, तथा विनयः-प्रतीतोवैनयिकंतत्फलं कर्मक्षयादिचरणं-व्रतादिकरणंपिण्डविशुद्धयादि यात्रा-संयमयात्रा मात्रा-तदर्थमेवाहारमात्रा, ततो विनयादीनां द्वन्द्वः, ततश्च विनयादीनां वृत्ति-वर्तनं यत्रासौ विनयवैनयिकचरणकरणयात्रामात्रावृत्तिकोऽतस्तं धर्मम् 'आख्यातम्' अभिहितमिच्छामीति योगः।।
___ एवं देवाणुप्पिया! गंतव्वंतियुगमात्रभून्यस्तद्दष्टिनेत्यर्थः ‘एवं चिट्ठियव्वं तिनिष्क्रमणप्रवेशादिवर्जितेस्थाने संयमात्मप्रवचनबाधापरिहारेणोर्ध्वस्थानेनस्थातव्यम्, 'एवंनीसीइयव्वं ति, 'निषिक्तव्यम्' उपवेष्टव्यं संदंशकभूमिप्रमार्जनादिन्यायेनेत्यर्थः ‘एवं तुयट्टियव्वं'तिशयितव्यं सामायिकोचारणादिपूर्वकम् ‘एवं भुंजियव्वं'ति धूमाङ्गारादिदोषवर्जनतः ‘एवं भासियव्वं'ति मधुरादिविशेषणोपपन्नतयेति एवमुत्थायोत्थाय' प्रमादनिद्राव्यपोहेन विबुद्धय २ प्राणादिषु विषये यः संयमो-रक्षा तेन संयंतव्यं-यतितव्यं तमाणाए'त्ति तद्' अनन्तरम् ‘आज्ञया आदेशेन 'ईरियासमिए'त्ति ईर्यायां-गमने समितः, सम्यक्प्रवृत्तत्वरूपं हि समितत्वम् ।
_ 'आयाणभंडमत्तनिक्खेवणासमिए'त्तिआदानेन-ग्रहणेन सह भाण्डमात्राया-उपकरणपरिच्छदस्यया निक्षेपणा-न्यासस्तस्यां समितो यः सतथा 'उच्चारे'त्यादि, इह च 'खेल'त्तिकण्ठ
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
ww