SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ शतकं -१, वर्ग:-, उद्देशक:- ९ तएण से कालासवेसियपुत्ते अनगारे थेरे भगवंते वंदइ नमसइ वंदित्ता नमंसित्ता चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपजित्ता णं विहरइ । तए णं से कालासवेसियपुत्ते अनगारे बहूणि वासाणि सामन्नपरियागं पाउणइ जस्सट्ठाए कीरइ नग्गभागे मुंडभावे अण्हाणयं अदंतधुवणयं अच्छत्तयं अनोवाहणयं भूमिसेज्जा फलहसेज्जा कट्टसेज्जा केसलोओ बंभचेरवासो परधरपसेवो लद्धावलद्धी उच्चावय गामकंटगा बावीसं परिसहोवसग्गा अहियासिजंति तमट्ठ आराहेइ २ चरिमेहं उस्सासनीसासेहिं सिद्धे बुद्धे मुक्के परिनिव्वुडे सब्वदुक्खप्पहीणे । १०९ वृ. 'पासावच्चिज्जे’त्ति पार्श्वपत्यानां पार्श्वजिनशिष्याणामयं पाश्र्वापत्यीयः 'थेरे' ति श्रीमन्महावीरजिनशिष्याः श्रुतवृद्धाः 'सामाइयं' ति समभावरूपं 'न याणंति 'त्ति न जानन्ति, सूक्ष्मत्वात्तस्य 'सामाइयस्स अहं' ति प्रयोजनं कर्मानुपादाननिर्जरणरूपं, 'पञ्चक्खाणं' ति पौरुष्यादिनियमं, तदर्थंच-आश्रवद्वानिरोधं, 'संजमं' ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थं च - अनाश्रवत्वं, 'संवरं'ति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थं तु-अनाश्रवद्वारनिरोधं, 'संजमं' ति पृथिव्यादिसंरक्षणलक्षणं, तदर्थं च-अनाश्रवत्वं, 'संवरं 'ति इन्द्रियनोइन्द्रियनिवर्त्तनं, तदर्थं तु-अनाश्रवत्वमेव, 'विवेगं’ति विशिष्टबोधं, तदर्थं च - त्याज्यत्यागादिकं, 'विउस्सग्गं' ति व्युत्सर्गं कायादीनां तदर्थं चानमिष्वङ्गताम् । अज्जो !'त्ति हे आर्य ! ओकारान्तता सम्बोधने प्राकृतत्वात्, 'किं भे’त्ति किं भवामित्यर्थः, ‘आया णे’त्ति आत्मा नः-अस्माकं मते सामायिकमिति, यदाह - "जीवो गुणपडिवन्नो नयस्स दव्वट्ठियस्स सामइयं "ति, सामयिकार्थोऽपि जीव एव कर्मानुपादानदीनां जीवगुणत्वात् जीवाव्यतिरिक्तत्वाच्च तद्गुणानामिति । एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । 'जइ भे अज्जो'त्ति यदि भवतां हे आर्या ! स्थविराः सामायिकमात्मातदा ‘अवहड्ड' त्ति अपहृत्य त्यक्त्वा क्रोधादीन् किमर्थं गर्हध्वे ? 'निंदामि गरिहामि अप्पाणं वोसिरामि' इति वचनात् क्रोधादीनेव अथवा 'अवज्ज'मिति गम्यते, अयमभिप्रायः यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति ?, निन्दा हि किल द्वेषसम्भवेति, अत्रोत्तरंसंयमार्थमिति, अवद्ये गर्हिते संयमो भवति, अवद्यानुमतेर्व्यवच्छेदनात्, तथा गर्हा संयमः, तद्धेतुत्वात् न केललमसी गर्हा कर्मानुपादानहेतुत्वात्संयमो भवति, 'गरहावि' त्ति गर्हेव च सर्वं 'दोसं'ति दोषं-रागादिकं पूर्वकृतं पापं वा द्वेषं वा 'प्रविनयति' क्षपयति, किं कृत्वा ? इत्याह- 'सव्वं बालियं' ति बाल्यं - बालतां मिथ्यात्वमविरतिं च 'परिन्नाए 'त्ति 'परिज्ञाय’ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्यायेति, इह च गर्हायास्तद्वतश्चाभेदादेकर्तृकत्वेन परिज्ञायेत्यत्र क्त्वाप्रत्ययविधिरदुष्ट इति, 'एवं खु'त्ति एवमेव 'णे' इत्यस्माकम् 'आया संजमे उवहिए' त्ति उपहितः प्रक्षिप्तो न्यस्तो भवति, अथवाऽऽत्मरूपः संयमः 'उपहितः' प्राप्तो भवति, ‘आया संजमेउवचिए 'त्ति आत्मा संयमविषये पुष्टो भवति आत्मरूपो वा संयम उपचितो भवति, ‘उवट्ठिए’त्ति ‘उपस्थितः’ अत्यन्तावस्थायी । ‘एएसि णं भंते! पयाणं’इत्यस्य 'आदिट्ठाण' मित्यादिना सम्बन्धः, कथमध्ष्टानामित्याह‘अन्नाणयाए’त्ति अज्ञानो-निर्ज्ञानस्तस्य भावोऽज्ञानता तयाऽज्ञानतया, स्वरूपेणानुपलम्भादित्यर्थः, एतदेव कथमित्याह-‘असवणयाए 'त्ति अश्रवणः श्रुतिवर्जितस्तद्भावस्तत्ता तया 'अबोहीए 'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003309
Book TitleAgam Suttani Satikam Part 05 Bhagvati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy