________________
१०६
भगवती अङ्गसूत्रं १/-/९/९५
मनुष्यास्त्वौदारिकवैक्रियतैजसाहारकाणि प्रतीत्येति ।
'धम्मत्थिकाए 'त्ति, इह यावत्करणाद् 'अहम्मत्थिकाए आगासत्थिकाए' त्ति दृश्यं 'चउत्थपएणं' ति एते 'अगुरुलहु' इत्यनेन पदेन वाच्याः, शेषाणां तु निषेधः कार्यो, धर्मास्तिकायादीनामरूपितयाऽगुरुलघुत्वादिति ।
पुद्गलास्तिकायसूत्रे उत्तरं निश्चयनयाश्रयम्, एकान्तगुरुलघुनोस्तन्मतेनाभावात् 'गुरुलहुयदव्वाई' ति औदारिकादीनि चत्वारि अगुरुलहुयदव्वाई' ति कार्मणादीनि ३ ।
‘समया कम्माणि य चउत्थपएणं' ति समयाः - अमूर्ता कर्माणि च कार्मणवर्गणात्मकानीत्यगुरुलघुत्वमेषां । 'दव्वलेसं पडुच्च तइयपएणं ति द्रव्यतः कृष्णलेश्या औदारिकादिशरीरवर्ण औदारिकादिकं च गुरुलध्वितिकृत्वागुरुलध्वित्यऽनेन तृतीयविकल्पेन व्यपदेश्या, भावलेश्या तु जीवपरिणतिस्तस्याश्चामूर्त्तत्वादगुरुलध्वित्यनेन व्यपदेश इत्यत आह-'भावलेसं पडुच्च चउत्थपदेणं'ति ।
‘दिट्ठीदंसणे’त्यादि, दृष्टयादीनि जीवपर्यायत्वेनागुरुलघुत्वादगुरुलघुलक्षणेन चतुर्थपदेन वाच्यानि । अज्ञानपदंत्विह ज्ञानविपक्षत्वादधीतम्, अन्यथा द्वारेषु ज्ञानपदमेव दृश्यते ।
‘हेट्ठिल्लए’त्ति औदारिकादीनि 'तइयपएणं' ति गुरुलघुपदेन, गुरुलघुवर्गणात्मकत्वात्
'कम्मय चउत्थपएणं' ति अगुरुलघुद्रव्यात्मकत्वात् कार्मणशरीराणां, मनोयोगवाग्यागौचतुर्थपदेन वाच्यी, तद्रव्याणामगुरुलघुत्वात्, काययोगः कार्मणवर्जस्तृतीयेन, गुरुलघुत्वात्तद्रव्याणामिति । 'सव्वदव्वे' त्यादि, 'सर्वद्रव्याणि' धर्मास्तिकायादीनि 'सर्वप्रदेशाः ' तेषामेव निर्विभागा अंशाः ‘सर्वपर्यवाः' वर्णोपयोगादयो द्रव्यधम्मा, एते पुद्गलास्तिकायवद् व्यपदेश्याः, गुरुलघुत्वेना- गुरुलघुत्वेन चेत्यर्थः यतः सूक्ष्माण्यमूर्त्तानि च द्रव्याण्यगुरुलघूनि, इतराणि तु गुरुलघूनि, प्रदेशपर्य- वास्तु तत्तद्रव्यसम्बन्धित्वेन तत्तत्स्वभावा इति ॥ गुरुलघुत्वाधिकारादिदमाहमू. (९६) से नूणं भंते! लाघवियं अप्पिच्छ अमुच्छ अगेही अपडिबद्धया समणाणंनिग्गंथाणं पसत्थं ? हंता गोयमा ! लाघवियं जाव पसत्थं ।
"
से नूणं भंते! अकोहतं अमाणत्तं अमायत्तं अलोभत्तं समपाणं निग्गंथाणं पसत्थं ?, हंता गोयमा ! अकोहत्तं अमाणत्तं जाव पसत्थं ।
से नूणं भंते! कंखापदोसे खीणे समणे निग्गंथे अंतकरे भवति अंतिमसारीरिए वा बहुमोहेवि यणं पुव्विं विहरित्ता अह पच्छ संवुडे कालं करेति तओ पच्छासिज्झति ३ जाव अंतं करेइ ?, हंता गोयमा ! कंखापदोसे खीणे जाव अंत करेति ।
वृ. ‘लाघवियं’ति लाधवमेव लाघविकम् - अल्पोपधिकम् 'अप्पिच्छ' त्ति अल्पोऽभिलाष आहारादिषु 'अमुच्छ' त्ति उपधावसंरक्षणानुबन्धः 'अगेहि' त भोजनादिषु परिभोगकालेऽ नासक्ति अप्रतिबद्धता - स्वजनादिषु स्नेहाभाव इत्येतत्पञ्चकमिति गम्यं, श्रमणानां निर्ग्रन्थानां 'प्रशस्तं ' सुन्दरम्, अथवा लाघविकं प्रशस्तं कथम्भूतमित्याह- 'अप्पिच्छ' अल्पेच्छरूपमित्यर्थः, एवमितराण्यपि पदानि ।
•
उक्ता लाघविकस्य प्रशस्तता, तच्च क्रोधाद्यभावाविनाभूतमिति क्रोधादिदोषाभावप्रशस्तताऽभिधानार्थं क्रोधादिदोषाभावाविनाभूतकाङ्क्षाप्रदोषक्षयकार्याभिधानार्थं च क्रमेण सूत्रे, व्यक्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org