________________
७०
समवायाङ्गसूत्रम्-३२/१०२
(समवायः-३२) मू. (१०२) . बत्तीसंजोगसंगहा प० तं० -
वृ. द्वात्रिंशतंस्थानकमपिव्यक्तं, नवरंयुज्यन्ते इति योगाः-मनोवाक्कायव्यापारः तेचेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचनानिरपलापादिना प्रकारेण सङग्रहणानि सङग्रहाः प्रशस्तयोगसंग्रहाः प्रशस्तयोगसङग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपच्चकं। मू. (१०३) -आलोयण १ निरवलावे २, आवईसुदढधम्मया ३।
अनिस्सिओवहाणे ४ य, सिक्खा ५ निप्पडिकम्मया ६॥ वृ. 'आलोयणे' त्यादि, अस्य गमनिका-तत्र अलोयण'त्ति मोक्षसाधनयोगसङग्रहाय शिष्येणा-चार्यायालोचनादातव्या १ 'निरवलावे'त्ति आचार्योऽपिमोक्षसाधकयोगसङग्रहायैव दत्तायामा- लोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः २, ‘आवईसु दढधम्मय'त्ति प्रशस्तयोगसङग्रहाय साधुनाऽऽपत्सु-द्रव्यादिभेदासु द्दढधर्मता कार्या, सुतरां तासु ढधर्मिणा भाव्यमित्यर्थः ३, 'अणिस्सि-ओहहाणेय'त्तिशुभयोगसङग्रहायैवानिश्रितंच-तदन्यनिरपेक्षमुपधानं च-तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः ४, 'सिक्ख'त्ति योगसङग्रहाय शिक्षाऽऽसेवितव्या, सा च सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा, ५, 'निप्पडिसकम्मय'त्ति तथैव निष्परित-कर्मता शरीरस्य विधेया ६॥ मू. (१०४) अन्नायया अलोभे ८ य, तितिक्ख ९ अज्जवे १० सुई ११।
सम्मदिट्ठी १२ समाही १३ य, आयारे १४ विणओवए १५॥ वृ. 'अन्नायय'त्ति तपसोऽज्ञातता कार्या, यशःपूजाद्यर्थित्वेनाप्रकाशय- द्भिस्तपः कार्यमित्यर्थः ७, 'अलोभे यत्तिअलोभता विधेया ८, 'तितिक्ख'त्ति तितिक्षा परीषहादि-जयः ९, 'अज्जवे'त्ति आर्जवः-ऋजुभावः १०, 'सुइ'त्ति शुचि सत्यं संयम इत्यर्थः ११ सम्मदिट्ठि'त्ति सम्यगष्टि-समदर्शनशुद्धि:१२, 'समाहीय'त्तिसमाधिश्च-चेतःस्वास्थ्यं १३, 'आयरे विणओवए'त्ति द्वारद्वयंतत्राचारोपगतः स्यात्न मायांकुर्यादित्यर्थ १४, विनयोपगतोभवेत्न मानं कुर्यादित्यर्थ १५॥ मू. (१०५) धिईमई १६ य संवेगे १७, पणिही १८ सुविहि १९ संवरे २०।
अत्तदोसोवसंहारे २१, सव्वकामविरत्तया २२॥ वृ. 'धिइमईय'त्तिधृतिप्रधाना मतिधृतिमति-अदैन्यं १६ संवेगो'त्तिसंवेगः-संसाराभयं मोक्षाभिलाषोवा १७ ‘पणिहित्तिप्रणिधि-मायाशल्यं न कार्यमित्यर्थः १८ सुविहि'त्ति ‘सुविहि' सदनुष्ठानं १९ संवरश्च-आश्रवनिरोधः २० 'अत्तदोसोवसंहारे'त्ति स्वकीयदोषस्य निरोधः २१ 'सव्वकामविरत्तय'त्ति समस्तविषयवैमुख्यं २२॥ मू. (१०६) पच्चक्खाणे २३-२४ विउस्सग्गे २५, अप्पमादे २६ लवालवे २७।
झाणसंवरजोगे २८ य, उदए मारणंतिए २९॥ वृ. 'पच्चक्खाणे'त्ति प्रत्याख्यानं मूलगुणविषयं २३ ‘उत्तरगुणविषयं च २४ विउस्सग्गे त्तिव्युत्स! द्रव्यभावभेदभिन्नः २५ ‘अप्पमाए'त्तिप्रमादवर्जनं २६ ‘लवालवे'त्ति कालोपलक्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org