SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ समवायः - २९ नामेकोनत्रिंशद्विघत्वात् तद्विध उक्तः, पापश्रुतविषयतया पापश्रुतान्येवोच्यन्ते । अत एवाह- 'भोमे' त्यादि, तत्र भौमं भूमिविकारफलाभिधानप्रधानं निमित्तशास्त्रं, तथा 'उत्पातं ' सहजरुधिरवृष्ट्यादिलक्षणोत्पातफलनिरूपकं निमित्तशास्त्रं, एवं स्वप्नं-स्वप्नफलाविर्भावकं, ‘अन्तरिक्षम्’ आकाशप्रभवग्रहयुद्धभेदादिभावफलनिवेदकं अङ्गशरीरावयवप्रमाणस्पन्दितादिविकारफलोद्भावकं 'स्वरं' जीवाजीवादिकाश्रितस्वस्वरूपफलाभिधायकं व्यञ्जनंमषादिव्यञ्जनफलोपदर्शकं लक्षणं- लाञ्छनाद्यनेकविधलक्षणव्युत्पादकमित्यष्ौ, एतान्येव सूत्रवृत्तिवार्त्तिकभेदाच्चतुर्विंशति, तत्राङ्गवर्जितानामन्येषां सूत्रं सहप्रमाणं वृत्तिर्लक्षप्रमाणा वार्त्तिकंवृत्तेव्याखयानरूपं कोटिप्रमाणं, अङ्गस्य तु सूत्रं लक्षं वृत्ति कोटी वार्त्तिकमपरिमितमिति, तथा विकथानुयोगः-अर्थकामोपायप्रतिपादनपराणि कामन्दकवात्स्यायनादीनि भारतादीनि वा शास्त्राणि . २५ तथा विद्यानुयोगो - रोहिणीप्रभृतिविद्यासाधनाभिधायकानि शास्त्राणि २६ मन्त्रानुयोगश्चेटकाहिमन्त्रसाधनोपायशस्त्राणि २७ योगानुयोगो-वशीकरणादियोगाभिधायकानि हरमेखलादिशास्त्राणि २८ अन्यतीर्थिकेभ्यः - कपिलादिभ्यः सकाशाद्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो-विचारः तत्पुरस्करणार्थ शास्त्रसन्दर्भ इत्यर्थ सोऽन्यतीर्थिकप्रवृत्तानुयोग इति २९ । ६१ तथाऽऽषाढादय एकान्तरिता षण्मासा एकोनत्रिंशद्रात्रिंदिवा इति-रात्रिदावसपरिमाणेन भवन्ति स्थूलन्यायेन, कृष्णे पक्षे प्रत्येकं रात्रिन्दिवस्यैकस्य क्षयाद्, आह च. "आसाढबहुलपक्खे भद्दवए कत्तिए य पोसे य । L 119 11 फग्गुणवइसाहेसु व बोद्धव्वा ओमरत्ताओ" ॥ इयमत्र भावना-चन्द्रमासो हि एकोनत्रिंशद्दिनानि दिनस्य च द्विषष्टिभागानां द्वात्रिंशत्, ऋतुमासश्चत्रिंशदेव दिनानि भवन्तीति चन्द्रमासापेक्षया ऋतुमासोऽहोरात्रद्विषष्टिभागानां त्रिंशता साधिको भवति, ततश्च प्रत्यहोरात्रं चन्द्रदिनमेकैकेन द्विषष्टिभागेन हीयते इत्यवसीयते, एवं द्विषष्टया चन्द्रदिवसानामेकषष्टयहोरात्राणां भवतीत्येवं सातिरेके मासद्वये एकमवमरात्रं भवतीति, विशेष- सित्वह चन्द्रप्रज्ञप्तेरवसेय इति, तथा 'चंददिणे णं' ति चन्द्रदिनं प्रतिपदादिका तिथि -, तच्चैकोनत्रिंशत् मुहूताः सातिरेकमुहूर्त्तपरिमाणेनेति कथं ?, यतः किल चन्द्रमास एकोनत्रिंसद्दिनानि द्वात्रिंसञ्च दिनद्विषष्टिभागा भवन्ति, ततश्चन्द्रदिनं चन्द्रमासस्य त्रिंशता गुणनेन मुहूर्त्तराशीकृतस्य त्रिंशता भागहारे एकोनत्रिंसन्मुहूर्त्ता द्वात्रिंशद्य मुहूर्तस्य द्विषष्टिर्भागा लभ्यन्त इति । तथा जीवः प्रशस्ताध्यवसानादिविशेषणो वैमानिकेष्वुत्पत्तुकामो नामकर्मण एकोनत्रिंशदुत्तरप्रकृतीर्बन्धाति, ताश्चेमाः- देवगतिः १ पच्चेन्द्रियजातिः २ वैक्रिययद्वयं ४ तैजसकार्मणशरीरे ६ समचतुरंस्र संस्थानं ७ वर्णादिचतुष्कं ११ देवानुपूर्वी १२ अगुरुलघु १३ उपघातं १४ पराघातं १५ उच्छ्वासं १६ प्रशस्तविहायोगति १७त्रसं १८ बादरं १९ पर्याप्तं २० प्रत्येकं २१ स्थिरास्थिरयोरन्यतरत् २२ शुभाशुभयोरन्यतरत् २३ सुभगं २४ सुस्वरं २५ आदेयानादेययोरन्यतरत् २६ यशः कीर्त्यशकीत्योरेकतरं २७ निर्माणं २८ तीर्थकरश्चेति । समवायः - २९ समाप्तः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy