SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ५२ समवायाङ्गसूत्रम्-२२/५२ सूत्राणि छिन्नछेदनयवन्ति तानि छिन्नछेदनयिकानि तानि च स्वसमया-जिनमताश्रिता या सूत्राणां परिपाटि-पद्धतिस्तस्यां स्वसमयपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा 'अछिन्नच्छेयणइयाई' ति इह योनयः सूत्रमच्छिन्नं छेदेनेच्छति सोऽच्छिन्नछेदनयो । यथा 'धम्मो मंगलमुक्किट्ठ' मित्यादिश्लोकोऽर्थोतो द्वितीयादिश्लोकमपेक्षमाण इत्येवं यान्यच्छिन्नच्छेदनयवन्ति तान्यछिन्नच्छेदनिकानि ताना चाऽऽजीविकसूत्रपरिपाट्यां-गोशालकमतप्रतिबद्धसूत्रपद्धत्यां तया वा भवन्ति, अक्षररचनाविभागस्थितानप्यर्थतोऽन्योऽन्यं प्रेक्षमाणानि भवन्तीति भावना, तथा 'तिकणइयाइं 'ति नयत्रिकाभिप्रायाच्चिन्त्यन्ते यानि तानि नयत्रिकवन्तीति त्रिकनयिकानीत्युज्यन्ते, ' त्रैराशिकसूत्रपरिपाट्या' इह त्रैराशिका गोशालकमतानुसारिणोऽभिधीयन्ते यस्मात्ते सर्वं त्र्यात्मकमिच्छन्ति, तद्यथा - जीवोऽजीवो जीवाजीवश्चेति, तथा लोकोऽलोको लोकालोकश्चेत्यादि, नयचिन्तायामपि ते त्रिविधनयमिच्छन्ति, तद्यथाद्रव्यास्तिकः पर्यायास्तिकः उभयास्तिकश्चेति, एतदेव नयत्रयमाश्रित्य त्रिकनयिकानीत्युक्तमिति तथा 'चउक्कनइयाई'ति नयचतुष्काभिप्रायात्तैश्चिन्त्यन्ते यानि तानि चतुष्कनिकानि, नयचतुष्कं चैवंनैगमनयो द्विविधः सामान्यग्राही विशेषग्राहीच, तत्र यः सामान्यग्राही स सङग्रहेऽन्तभूतो विशेषग्राही तु व्यवहारे, तदेवं सङ्ग्रहव्यवहारऋजूसूत्राः शब्दादित्रयं चैक एवेति चत्वारो नया इति, 'स्वसमये' त्यादि तथैवेति । तथा पुद्गलानाम-अण्वादीनां परिणामो धर्मः पुद्गलपरिणामः, स च वर्णपच्चकगन्धद्वयरस- पच्चस्पर्शाष्टभेदाद्विंशतिधा, तथा गुरुलघुरगुरुलघु इति भेदद्वयक्षेपाद् द्वाविंशति, तत्र गुरुलघु द्रव्यं यत्तिर्यग्गामि वाटवादि अगुरुलघुर्यत् स्थिरं सिद्धक्षेत्रं घण्टाकारव्यवस्थितज्योतिष्कविमानादीति तथा महितादीनि षड् विमाननामानि । समवायः - २२ समाप्तः समवाय: - २३ मू. (५३) तेवीसं सुयगडज्झयणा प०, तं० - समए वेतालिए उवसग्गपरिन्ना थीपरिन्ना नरयविभत्ती महावीरथुई कुसीलपरिभासिए विरिए धम्मे समाही मग्गे समोसरणे आहत्तहिए गंथे जमईए गाथा पुंडरीए किरियाठाणा आहारपरिन्ना अपञ्चक्खाणकिरिआ अणगारसुयं अद्दइजं नालंदइज्जं । जंबुद्दीवे णं दीवे भारहे वासे इमीसे णं ओसप्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाणदंसणे समुप्पन्ने, जंबुद्दीवे णं दीवे इमीसे णं ओसप्पिणीए तेवीसं तित्थकरा पुव्वभवे एक्कारसंगिणो होत्था तं० -अजित संभव अभिनंदण सुमई जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए चोद्दसपुव्वी होत्था, जंबुद्दीवे णं दीवे इमीसे ओसप्पिणीए तेवीसं तित्थंकरा पुव्वभवे मंडलिरायाणो होत्था तं० -अजित संभव अभिनंदन जाव पासो वद्धमाणो य, उसभेणं अरहा कोसलिए पुव्वभवे चक्कवट्टी होत्था । इसे रयणप्पभाए पुढवीए अत्येगइयाणं नेरइयाणं तेवीसं पलिओवमाइं ठिई प०, अहेसत्तमाए णं पुढवीए अत्थेगइयाणं नेरइयाणं तेवीसं सागरोवमाई ठिई प० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy