SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३४ समवायाङ्गसूत्रम् - १३/२६ सूरमण्डलयोजनं तत् 'ण' मित्यलङ्गारे त्रयोदशभिरेकषष्टिभागैर्येषां भागानामेकषष्ट्या योजनं भवति तेर्भागैर्योजनस्य सम्बन्धिभिरूनं-न्यूनं प्रज्ञप्तमष्टचत्वारिंशद् योजनभागा इत्यर्थः । वज्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति । समवाय: १३ - समाप्तः समवाय: १४ मू. (२७) चउद्दस भूअग्गामा प० तं० -सुहुमा अपज्जत्तया सुहुमा पज्जत्तया बादरा अपजत्तया बादरा पज्जत्तया बेइंदिआ अपज्जत्तया बेइंदिया पज्जत्तया तेदिआ अपजत्तया तेंदिया पज्जत्तया चउरिदिआ अपजत्तया चउरिदिया पजत्तया पंचिंदिआ असन्निअपजत्तया पंचिंदिआ असन्निपजत्तया पंचिंदिआ सन्निअपज्जत्तया पंचिंदिआ सन्निपजत्तया । चउदस पुव्वा प० तं० । वृ. अथ चतुर्दशस्थानकं सुबोधं, नवरमिहाष्टौ सूत्राण्यर्वाक् स्थितिसूत्रादिति, तत्र चतुर्दश ‘भूतग्रामाः’भूतानि-जीवाः तेषां ग्रामाः- समूहाः भूतग्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्त्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता ?- अपर्याप्तकाः तत्कर्मोदयादपरिपूर्णस्वीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तकाः- तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादरा बादरनामकर्मोदयात् पृथिव्यादय एव, तेऽपि पर्याप्तेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयोऽपि, नवरं पच्चेद्रियाः सञ्ज्ञिनो मनः पर्याप्त्युपेता इतरे त्वसञ्ज्ञिन इति । मू. (२८) उप्पायपुव्वमग्गेणियं च तइयं च वीरियं पुव्वं । अत्थीनत्थिपवायं तत्तो नाणप्पवायं च ॥ वृ. तथा 'उप्पायपुव्वे' त्यादि गाथात्रयं, तथा 'उप्पायपुव्वमग्गेणियं च 'त्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्वं यत्र तेषामेवाग्रं- परिमाणमाश्रित्य तदग्रेणीयं, 'तइयं च वीरियं पुव्वं 'ति यत्र जीवादीनां वीर्यं प्रोच्यते प्ररूप्यते तद्वीर्यप्रवादं 'अत्थीनत्थिपवायं 'ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्तिनास्तिप्रवादं 'तत्तो नाणप्पवायं च 'त्ति यत्र ज्ञानं-मत्यादिकं स्वरूपभेदादिभिः प्रोच्यते तत् ज्ञानप्रवादमिति १ । मू. (२९) सच्चप्पवायपुव्वं तत्तो आयप्पवायपुव्वं च । कम्मप्पवायपुव्वं पच्चक्खाणं भवे नवमं ॥ वृ. सच्चप्पवायपुव्वं ति यत्र सत्यः- संयमः सत्यं वचनं वा सभेदं सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्वं ततः 'आयप्पवायपुव्वं च 'त्ति यत्रात्मा जीवोऽनेकनयैः प्रोच्यते तदात्मप्रवादमिति, 'कम्मप्पवायपुव्वं' ति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति, 'पच्चक्खाणं भवे नवमं ति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति । मू. (३०) विज्जाअणुप्पवायं अवझपाणाउ बारसं पुव्वं । तत्तो किरियविसालं पुव्वं तह बिंदुसारं च ॥ वृ. 'विजाअणुप्पवायं 'ति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादं, 'अवंझपाणाबारसं पुव्वं 'ति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः सफला वर्ण्यन्ते तदवन्ध्यमेकादशं, यत्र प्राणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy