SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० णं जगई अट्ठ जोयणाई उद्धं उच्चत्तेणं प० । अट्ठसामइए केवलिसमुग्धाए प० तं० - पढमे समए दंड करेइ बीए समए कवाडं करेइ तइए समए मंथं करेइ चउत्थे समए मंथंतराई पूरेइ पंचमे समए मंथंतराइ पडिसाहरइ छट्टे समए मंथं पडिसाहरइ सत्तमे समए कवाडं पडिसाहरइ अट्टमे समए दंडं पडिसाहरइ ततो पच्छा सरीरत्थे भवइ । पासस्स णं अरहओ पुरिसादाणिअस्स अट्ठ गणा अट्ठ गणहरा होत्या, तं० । वृ. अथाष्टमस्थानकं व्याख्यायते, सुगमं चैतत्, नवरमिह मदस्थानप्रवचनमातृचैत्यवृक्षम्बूशाल्मलीजगतीकेवलिसमुद्घातगणधरनक्षत्रार्थानि सूत्राणि नव स्थित्यर्थानि षट् उच्छ्वासाद्यर्थानि त्रीणीति । समवायाङ्गसूत्रम् - ८/८ तत्र मदस्य- अभिमानस्य स्थानानि - आश्रयाः मदस्थानानि - जात्यादीनि, तान्येव मदप्रधानतया दर्शयन्नाह- 'जाइमए' इत्यादि, जात्या मदो जातिमद एवमन्यान्यपि, अथवा मदस्य स्थानानिमदाः मदस्थानानि, तान्येवाह - 'जाइमए' इत्यादि, शेषं तथैव । तथा प्रवचनस्य द्वादशाङ्गस्य तदाधारस्य वा सङ्घस्य मातर इव-जनन्य इव प्रवचनमातरःईर्यासमित्यादयो, द्वादशाङ्गं हि ता आश्रित्य साक्षात्प्रसङ्गतो वा प्रवर्त्तते, भवति च यतो यत्प्रवर्त्तते तस्य तदाश्रित्य मातृकल्पनेति, सङ्घपक्षे तु यथा शिशुर्मातरममुच्चन्नात्मलाभं लभते एवं सङ्घस्ताममुच्चन् सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीना प्रवचनमातृतेति । 119 11. तथा व्यन्तरदेवानां चैत्यवृक्षाः तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया छत्रचामरध्वजादिभिरलङ्कृता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्याः । 'कलंबो उ पिसायाणं, वडो जक्खाण चेइयं । तुलसी भूयाणं भवे, रक्खसाणं तु कंडओ ॥ असोगो किन्नराणंच, किंपुरिसाण य चंपओ । नागरुक्खो भयंगाणं, गंधव्वाण य तुंबुरू ॥ तथा 'जम्बु' त्ति उत्तरकुरुष जम्बूवृक्षः पृथिवीपरिणामः सुदर्शनेति तन्नाम, एवं कूटशाल्मली वृक्षविशेषः, एष देवकुरुष गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति, जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति । ॥२॥ तथा पार्श्वस्यार्हतः त्रयोविंशतितमतीर्थकरस्य 'पुरिसादानीयस्स' त्ति पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीयस्तस्याष्टौ गणाः समानवाचनाक्रियाः साधुसमुदायाः अष्टौ गणधराः -तन्नामकाः सूरयः, इदं चैतत्प्रमाणं स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके अन्यथा, तत्र ह्युक्तम्- 'दस नवगं गणाण माणं जिणिंदाणं 'ति, कोऽर्थः । मू. (९) सुमेय सुभघोसे य, वसिट्टे बंभयारि य । सोमे सिरिधरे चेव, वीरभद्दे जसे इय ॥ Jain Education International वृ. प्रार्श्वस्य दश गणाः गणधराश्च तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुगन्तव्येति, 'सुभे' इत्यादि श्लोकः । मू. (१०) अट्ठ नक्खत्ता चंदेणं सद्धिं पमद्दं जोगं जोएंति, तं० - कत्तिया १ रोहिणी २ For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy