SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ समवायाङ्गसूत्रम् - ५/५ असुरकुमाराणं देवाणं अत्थेगइयाणं पंच पलि ओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणंपंच पलिओवमाइं ठिई प०, सणकुमारमाहिंदेसु कप्पेसु अत्थेगइयाणं देवाणं पंच सागरोवमाइं टिई प० । जे देवा वायं सुवायं वायावत्तं वायप्पभं वायकंतं वायवन्नं वायेसं वायज्झयं वायसिंगं वायसिट्टं वायकूडं वाउत्तरवडिंसगं सूरं सुसूरं सूरावत्तं सूरप्पभं सूरकंतं सूरवन्नं सूरलेसं सूरज्झयं सूरसिंगं सूरसिद्धं सूरकूडं सूरुत्तरवडिंसगं विमाणं देवत्ताए उववन्ना तेसि णं देवाणं उक्कोसेणं पंच सागरोवमाइं ठिई प० ते णं देवा पंचण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं पंचहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जइ । संतेगइया भवसिद्धिया जीवा जे पंचहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करिस्संति वृ. पञ्चस्थानकमपि सुगमं, नवरं क्रियामहाव्रतकामगुणाश्रवसंवरनिर्जरास्थानसमित्यस्तिकायार्थं सूत्राणामष्टकं, नक्षत्रार्थं पञ्चकं, स्थित्यर्थं षट्कं उच्छ्वासाद्यर्थं त्रयमेवेति । तथा क्रियाः - व्यापारविशेषाः तत्र कायेन निर्वृत्ता कायिकी, कायचेष्टेत्यर्थः, अधिक्रियते आत्मा निरकादिषु येन तदधिकरणं तेन निर्वृत्ता आधिकरणिकी खड्गादिनिर्वर्त्तनादिलक्षणेति, प्रद्वेषो - मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी प्राणातिपातक्रिया प्रतीतेति । तथा काम्यन्ते-अभिलष्यन्ते इति कामास्तेच ते गुणाश्च पुद्गलधर्मा शब्दादय इति कामगुणाः कामस्य वा मदनस्योद्दीपका गुणाः कामगुणाः शब्दादय इति । तथा आश्रवद्वाराणि-कर्मोपादानोपाया मिथ्यात्वादीनि संवरस्य-कर्मानुपादानस्य द्वाराणिउपायाः संवरद्वाराणि-मिध्यात्वाद्याश्रवद्वारविपरीतानि सम्यक्त्वादीनि । तथा निर्जरा-देशतः कर्मक्षपणा तस्याः स्थानानि - आश्रयाः कारणानीतियावन्निर्जरास्थानानि-प्राणातिपातविरमणादीनि, एतान्येव च सर्वशब्दविशेषितानि महाव्रतानि भवन्ति, तानि च पूर्वसूत्राभिहितानी स्थूलशब्दविशेषितानि अणुव्रतानि भवन्ति, निर्जरास्थानत्वं पुनरेषां साधारणमिति तदिहैषामभिहितं । तथा समितयः-सङ्गताः प्रवृत्तयः, तत्रेर्यासमिति - गमने सम्यक् सत्त्वपरिहारतः प्रवृत्ति भाषासमिति-निरवद्यवचनप्रवृत्ति, एषणासमिति-द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे प्रवृत्ति, आदाने - ग्रहणे भाण्डमात्रयोरुपकरणपरिच्छदस्य निक्षेपणेअवस्थापने समिति सुप्रत्युपेक्षितादिसाङ्गत्येन प्रवृत्तिश्चतुर्थी, तथोच्चारस्य - पुरीषस्य प्रश्रवणस्य मूत्रस्य खेलस्य निष्ठीवनस्य सिंघाणस्यनासिका श्लेष्मणो जल्लस्य- देहमलस्य परिष्ठापनायां परित्यागे समिति-स्थण्डिलादिदोषपरिहारतः प्रवृत्तिरित पञ्चमी । अस्तिकायाः-प्रदेशराशयः धर्मास्तिकायादयो गतिस्थित्यवगाहोपयोगस्पर्शादिलक्षणाः स्थितिसूत्रेषु स्थितेरुत्कृष्टादिविभाग एवमनुगन्तवयः, यदुत - ॥ १ ॥ सागरमेगं १ तिय २ सत्त ३ दस य ४ सत्तरस ५ तह य बावीसा ६ । तेत्तीसं जाव ठिई सत्तसुवि कमेण पुढवीसु ॥ ॥२॥ Jain Education International ढमा ट्ठा सा बीयाए कणिट्टिया भणिया । तरतमजोगो एसो दस वाससहस्स रयणाए । For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy