________________
१७८
समवायाङ्गसूत्रम्-३३७
घृत्वा अयोधनेनाऽऽस्फोट्यते न च भिद्यते तावेव भिनत्तीति, दुर्भेदं तदिति, अथवा महती या रचना सागरशकटव्यूहादिना प्रकारेण सिसङ्गामयिषोर्महासैन्यस्य रणरङ्गरसिकतया महाबलतया च विघटयन्ति-वियोजयन्ति येते महारचनाविघटकाः, पाठान्तरेण तुमहारणविधटकाः।
अर्द्धभरतस्वामिनः सौम्यानीरुजाराजकुलवंशतिलकाः अजिताः अजितरथाः, 'हलमुशलकणकपाणयः' तत्र हलमुशले प्रतीते ते प्रहरणतया पाणौ-हस्ते येषां ते तथ बलदेवाः येषां तु कणका-बाणाः पाणौ तेशाङ्गधन्वानो वासुदेवाः, शंखश्च पाञ्चजन्याभिधानः चक्रंतुसुदर्शननामकं गदाच कौमोदीकीसंज्ञालकटविशेषःशक्तिश्चत्रिशूलविशेषोनन्दकश्च नन्दकाभिधानःखङ्गस्तान् धारयन्तीतिशंखचक्रगदाशक्तिनन्दकधराः वासुदेवाः, प्रवरोवरप्रभाव योगादुज्ज्वलः शुक्लत्वात् स्वच्छतयावा शुक्लान्तः कान्तियोगात्पाठान्तरेसुकृतः-सुपरिकर्मितत्वात् विमलोमलवर्जितत्वात् गोथुमत्ति-कौस्तुभाभिधानो यो मणिविशेषस्तं तिरीडंति-किरीटंच मुकुटं धारयन्ति येते तथा।
कुण्डलोद्योतिताननाः पुण्डरीकवनन्यने येषां ते तथा, एकावली-आभरणविशेषः सा कण्ठेग्रीवाया लगिता-अवलम्बिता सतीवक्षसि-उरसि वर्ततेयेषातेएकावलीकण्ठलगितवक्षसः, श्रीवत्साभिधानं सुष्टु लाञ्छनं महापुरुषत्वसूचकं वक्षसि येषां ते श्रीवत्सलाञ्छनाः, वरयशसः सर्वत्र विख्यातत्वात्सर्वर्तुकानि-सर्वऋतुसंभवानि सुरभीणि-सुगन्धीनियानि कुसुमानितैः सुरचिताकृता या प्रलम्बा-आप्रदीपना सोभंतत्ति-शोभमाना कान्ता-कमनीया विकसन्ती-फुल्लन्ती चित्रापञ्चवर्णावरा-प्रधानामाला-म्रक्रचिता-निहिता रतिदा वा-सुखकारिका वक्षसियेषां ते सर्वर्तुकसुरभिकुसुमरचितप्रलम्बशोभमानकान्तविकसच्चित्रवरमालारचितवक्षसः, तथाअष्टशतसंख्यानि विभक्तानि विविक्तरूपाणि यानि लक्षणानि-चक्रादीनि तैःप्रशस्तानि-मङ्गल्यानि सुन्दराणि चमनोहराणि विरचितानि-विहितानि।
'अंगमंग'त्तिअङ्गोपाङ्गानिशिरोऽङ्गुल्यादिनी येषांते अष्टशतविभक्तलक्षणप्रशस्त सुन्दर विरचिताङ्गोपाङ्गः, तथा मत्तगजवरेन्द्रस्य यो ललितो-मनोहरो विक्रमः-संचरणं तद्वद्विलासिता संजातविलासा गति-गमनं येषांते मत्तगजवरेन्द्रललितविक्रमविलासितगतयः, तथा शरदिभवः शारदः स चासौ नवं स्तनितं-रसितं यस्मिन्निर्घोष स नवस्तनितः स चेति समासः सचासौ मधुरो गम्भीरश्च यः क्रौञ्चनिर्घोषः-पक्षिविशेषनिनादस्तद्वद् दुन्दुभिस्वरो-वर्चस्वरो नादो येषां ते शारदनवस्तनितमधुरगम्भीरक्रौञ्चनिर्घोषदुन्दुभिस्वराः, इह च शरत्काले हि क्रौञ्चा माध्यन्ति मधुरध्वनयश्च भवन्तीति शारदग्रहणं, तथा पौनःपुन्येन शब्दप्रवृत्तौ तद्भङ्गादमनोज्ञता तस्य स्यादिति नवस्तनितग्रहणं स्वरूपोपदर्शनार्थं मधुरगभीग्रहणमिति।
तथा कटीसूत्रकं-आभरणविशेषस्तप्रधानानि नीलानि बलदेवानां पीतानि वासुदेवानां कौशेयकानि-वस्त्रविशेषभूतानि वासांसि-वसनानि येषां ते कटीसूत्रनीलपीतकौशेयवाससः, प्रवरदीप्ततेजसो वरप्रभावतया वरदीप्तितया च, नरसिंहा विक्रमयोगात् नरपतयः तन्नायकत्वात् नरेन्द्राः परमैश्वर्ययोगात्नरवृषभाउत्क्षिप्तकार्यभरनिर्वाहकत्वात् मरुद्वृषभकल्पा:-देवराजोपमा अभ्यधिकं शेषराजेभ्यः राजतेजोलक्ष्मया दीप्यमानाः, नीलकपीतकवसना इति पुनर्भणनं निगमनार्थं, कथं ते नवेत्याह-'दुवे दुवे' इत्यादि, एवं च नव वासुदेवा नव बलदेवा इति ।
मू. (३२८) तिविदू जाव कण्हे अयले जाव रामे यावि अपच्छिमे। वृ. 'तिविठू य' यावत्करणात् 'दुविढे य,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org