________________
समवायः - प्रकीर्णकाः
१७७
दीनांचबलाद्यपेक्षयामध्यवर्त्तित्वात.प्रधानपुरुषास्तत्का-लिकपुरुषाणांशौर्यादिभि प्रधानत्वात, ओजस्विनो मानसबलोपेतत्वात्, तेजस्विनो दीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रमप्राप्य प्रसिद्धिप्राप्तत्वात्, 'छायंसित्तिप्राकृतत्त्वात्छायावन्तःशोभमानशरीरा अतएव कान्ताः कान्तियोगात् सौम्या अरौद्राकारत्वात् सुभगाजनवल्लभत्वात् प्रियदर्शनाः चक्षुष्यरूपत्वात्सुरूपाः समचतुरसंस्थानत्वात् शुभं सुखं वासुखकरत्वाच्छीलं-स्वभावोयेषांतेशुभशीलाः सुखशीला वा सुखेनाभिगम्यंते-सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः सर्वजनगम्याः सर्वजननयनानां कान्ता-अभिलाष्या येते तथा
ततः पदत्रयस्य कर्मधारयः, ओघबलाः-प्रवाहबलाः अव्यवच्छिन्नबलत्वात् अतिबलाः शेषपुरुषबलानामतिक्रमात् महाबलाः-प्रशस्तबलाः अनिहता-निरुपक्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात्अपराजितास्तैरेवशत्रूणां पराजितत्वात्, एतदेवाह-शत्रुमर्दनास्तच्छरीतत्सैन्यकदर्थना रिपुसहमानमथनास्तद्वाञ्छितकार्यविघटनात् सानुक्रोशाःप्रणतेष्वद्रोहकत्वात् अमत्सराः परगुणलवस्यापिग्राहकत्वात्अचपलामनोवाक्कायस्थैर्यात् अचण्डा निष्कारणप्रबलकोपरहितत्वात् मिते-परिते मञ्जुले-कोमले प्रलापश्च-आलापो हसितं च येषां ते मितमञ्जुलप्रलापहसिताः गम्भीरं अदर्शितरोषतोषशोकादिविकारं मेघनादवद्वा मधुरं-श्रवणसुखकरं प्रतिपूर्णम्-अर्थप्रतीतिजनकं सत्यम्-अवितथं वचनं-वाक्यं येषा ते तथा। .
ततः परद्वयस्य कर्मधारयः, अभ्युपगतवत्सलास्तत्समर्थनशीलवात् शरण्यास्त्राणकरणे साधुत्वात् लक्षणानि-मानादीनि वर्जस्वस्तिकचक्रादीनि वा व्यञ्जनानि-तिलकमषादीनि तेषां गुणाःमहर्द्धिप्राप्तयादयस्तैरुपेताः शकन्ध्वादिदर्शनादुपपेता-युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथं?, उदकपूर्णायांद्रोण्या निविष्टे पुरुषेयज्जलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानं अर्द्धभारपरिमाणता, कथं?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते ।
प्रमाणमष्टोत्तरशतमङ्गुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्ण-अन्यूनं सुजातमागभर्भाधानात्पालनविधिना सर्वाङ्गसुन्दरं निखिलावयवप्रधानअङ्गशरीरं येषांतेतथा, 'अमरिसण'त्ति अमसृणाः-प्रयोजनेष्वनलसाः अमर्षणावा-अपराधेष्वपि कृतक्षमाः प्रकाण्ड-उत्कटो दण्डप्रकारआज्ञाविशेषो नीतिभेदविशेष वा येषा ते तथा
अथवा प्रचण्डो-दुःसाध्यसाधकत्वाद्दण्डप्रचारः-सैन्यविचरणं येषां ते तषा गम्भीराअलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्तेये ते गम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजाः बलदेवा उद्विद्धः-उच्छ्रितो गरुडलक्षितः केतुः-ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः तालध्वजाश्च उद्विद्धगरुडकेतवस्चतालध्वजोद्विद्धगरुडकेतवः महाधनुर्विकर्षकाः महाप्राणत्वात् महासत्त्वलक्षणजलस्यसागराइवसागराआश्रयत्वान्महासत्त्वसागराः दुर्द्धरारणाङ्गणेतेषांप्रहरतां केनापि धन्विना धारयुतिमशक्यत्वात्, धनुर्धराः-कोदण्डप्रहरणाः।
धीरेष्वेवैतेषु च ते पुरुषाः-पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तप्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भावा इति प्रतोतं, महारत्न-वज्रं तस्य महाप्राणतया विघटका-अङ्गुष्ठतर्जनीम्यां चूर्णका महारत्नविघटकाः, वज्रं हि अधिकरण्यां
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org