________________
१५६
'अंतो वट्टे' त्यादि, उक्तं च सूत्रकृद्वृत्तिकृता ।
नारकाः सीमन्तकादिका बाहुल्यमंगीकृत्यान्तः- मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णकानाश्रित्योक्तं तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यनचतुरनसंस्थाना भवन्तीति, तत्रान्तवृत्ता मध्ये शुषिरमाश्रित्य बहिश्च चतुरा . कुड्यपरिधिमाश्रित्य यावत्करमादिदं द्दश्यं यदुत अधः क्षुरप्रसंस्थानसंस्थिताः - भूतलमाश्रित्य क्षुरप्राकारस्तद्भूतलस्य संचारिसत्वपादच्छेदकत्वात् अन्ये त्वाहुः तेषामधस्तनांशः क्षुरप्र इवाग्रेऽग्रे प्रतलो विस्तीर्णश्चेति क्षुरप्रसंस्थानता, तथा 'निच्चंधयारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेयवसापूयरुहिरमंसचिक्खिल्ललित्ताणुलेवणतला असुइवीसा परमदुब्भिगंधा काऊ अगणिवण्णाभा कक्खडफासा दुरहियासा' इति तत्र नित्यं सर्वदा अन्धारं - अन्धत्वकारकं बहलबलाहकपटलाच्छादितगगनमण्डलामावास्यार्द्धरात्रान्धकारवत्तमः-तमिनं येषु ते नित्यान्धकारतमसः, अथवा नित्येनान्धकारेण सार्वकालिकेनेत्यर्थः तमसः- तमिस्रं नित्यान्धकारतमसः, जात्यन्धमेद्यान्धकारामावास्यानिशीथतुल्या इत्यर्थः ।
समवायाङ्गसूत्रम् - २३४
कथमित्यत आह-व्यपगता- अविद्यमाना ग्रहचन्द्रसूरनक्षत्ररूपाणां ज्योतिषां ज्योतिष्कलक्षणविमानविशेषाणां ज्योतिषो वा - दीपाद्यग्नेः प्रभाप्रकाशो येषु ते तथा, 'पह'त्ति पथशब्दो वाऽयं व्याख्येयः, तथा मेदोवसापूयरुधिरमांसानि शरीरावयवास्तेषां यच्चिक्खिल्लं-कर्दमस्तेन लिप्तं - उपदिग्धमुलेपनेन सकृल्लिप्तस्य पुनः पुनरुपलेपनेन तलं भूमिका येषां ते मेदोवसापूयरुधिरमांसचिक्खिल्ललिप्तानुलेपनतलाः, यद्यपि च तत्र मेदः प्रभृतीन्यौदारिकपञ्चेन्द्रियशरीरावयवरूपाणि न सन्ति वैक्रियशरीरत्वान्नारकाणां तथापि तदाकारास्तदवयवास्तत्र प्रोच्यन्त इति, अशुचयो विश्राः-आमगन्धयः पूतिगन्धय इत्यर्थः ।
अत एव परमदुरभिगन्धाः 'काउअगमिवण्णाभ' त्ति कृष्णाग्निर्लोहादीनां ध्यायमानानां तद्वर्णवदाभा येषां ते कृष्णाग्निवर्णाभाः, तथा कर्कशः स्पर्शो येषां ते कर्कशस्पर्शा, अत एव दुःखेन-कृच्छ्रेणाधिसोढुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका स्पर्शो येषां ते कर्कशस्पर्शा, अत एव दुःखेन-कृच्छ्रेणाधिसोटुं शक्यते वेदना येषु ते दुरधिसह्याः, अत एवाशुभा नरका अशुभा नरकेषु वेदना इति 'एवं सत्तवि भाणियव्व' त्ति प्रथमाममुञ्चता सप्त इत्युक्तं, 'जं जासुजुज्जइ'त्ति यच्च यस्यां पृथिव्यां बाहलयस्य नरकाणां च परिमाणं युज्यते स्थानान्तरोक्तानुसारेण तच्च तस्यां वाच्यं तच्चेदं । मू. (२३५)
आसीयं बत्तीसं अट्ठावीसं तहेव वीसं च । अट्ठारस सोलसगं अत्तरमेव बाहल्लं ।। तीसा य पन्नवीसा पन्नरस दसेव सयसहस्साइं । तिन्नेगं पंचूणं पंचेव अनुत्तरा नरगा ॥
मू. (२३६)
वृ. ‘आसीतं’ गाहा‘तीसा य’ गाहा अशीतिसहस्राधिकयोजनलक्षं रत्नप्रभायां बाहल्यमेवं शेषासु भावनीयं । तथा त्रिंशल्लक्षाणि प्रथमायां नरकावासानामित्येवं शेषास्वपि नेयमिति, । एवं चैव सूत्राभिलापो दृश्यः, 'सक्करप्पभाए णं पुढवीए केवइयं ओगाहित्ता केवइया निरया पन्नत्ता ?, गोयमा! सक्करपभाए णं पुढवीए बत्तीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एवं जोयणसहस्सं ओगाहित्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे तीसुत्तरे जोयणसयसहस्से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org