SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ समवायः प्रकीर्णकाः १४७ , सपरिग्रहता तया संचितानां कर्म्मणामिति योगः, महातीव्रकषायेन्द्रियप्रमादपापप्रयोगा- शुभाध्यवसायसञ्चितानां कर्मणां पापकानां पापानुभागा-अशुभरसा ये फलविपाका विपाकोदयास्ते तथा ते आख्यायन्त इति योगः केषामित्याह - निरयगतौ तिर्यगयोनौ च ये बहुविधव्यसनशतपरम्पराभिः प्रबद्धाः ते तथा तेषां जीवानामिति गम्यते, तथा 'मणुयत्ते 'त्ति मनुजत्वेऽप्यागतानां यथा पापकर्मशेषण पापका भवन्ति फलविपाका अशुभा विपाकोदया इत्यर्थः, तथा आख्यायन्ते इति प्रकृतं, तथाहि वधो-यष्ट्यादिताडनं वृषणविनाशो-वर्द्धितककरणं तथा नासायाश्च कर्णयोश्च ओष्ठस्य चाङ्गुष्ठानां च करयोश्च चरणयोश्च नखानां य यच्छेदनं तत्तथा जिह्वाछेदनं 'अंजण' त्ति अञ्जनं तप्तायः शलाकया नेत्रयोः प्रक्षणं वा देहस्य क्षारतैलादिना 'कडग्गिदाणं ति कटानां विदलवंशादिमयानामग्निः कटाग्निस्तने दाहनं कटाग्निदाहनं, कटेन परिवेष्टितस्य बाधनमित्यर्थः, तथा गजचलनमलनं फालनं विदारणं उल्लम्बनंवृक्षशाखादावुद्बन्धनं तथा शूलेन लतया लकुटेन यष्ट्या च भञ्जनं गात्राणां तथा त्रपुणा -धातुविशेषेण सीसकेण च तेनैव तप्तेन तैलेन च 'कलकल' त्ति सशब्देनाभिषेचनं तथा कुम्भ्यां भाजनविशेषे पाकः कुम्भीपाकः कम्पनंशीतलजलाच्छोटनादिना शीतकाले गात्रोत्कम्पजननं तथा स्थिरबन्धनंनिबिडनियन्त्रणं वेध:कुन्तादिना शस्त्रेण भेदनं वर्द्धकर्त्तनं-त्वगुत्त्रोटनं प्रतिभयकरं भयजननं तच्च तत् करप्रदीपनं चवसनावेष्टितस्य तैलाभिषिक्तस्य करयोरग्निप्रबोधनमिति कर्म्मधारयः, ततश्च वधश्च वृषणविनाशश्चेत्यादि यावत्प्रतिभयकरकरप्रदीपनं चेति द्वन्द्वः । - ततस्तानि आदिर्येषां दुःखानां तानिच तानि दारुणानि चेति कर्म्मधारयः, कानीमानीत्याहदुःखानि, किंभूतानि ? - अनुपमानि दुःखविपाकेष्वाख्यायन्त इति प्रक्रमः, तथेदमाख्यायते बहुविविधपरम्पराभिदुःखानामिति गम्यते, अनुबद्धाः सन्ततमालिङ्गिता बहुविधपरम्परानुबद्धा जीवा इति गम्यते न मुच्यन्ते न त्यज्यन्ते, कया ? - पापकर्मवल्ल्या दुःखफलसम्पादिकया, किमित्याहयतोऽवेदयित्वाअननुभूय कर्मफलमित गम्यते हुर्यस्मादर्थे नास्ति न भवति मोक्षो वियोगः कर्म्मणः सकाशात्, जीवानामिति गम्यते, किं सर्वथा नेत्याह-तपसा - अनशनादिना किम्भूतेन ? - धृतिचित्तसमाधानं तद्रूपा । - 'धणिय'त्ति अत्यर्थं बद्धा-निष्पीडिता कच्छा-बन्धविशेषो यत्र तत्तथा तेन, धृतिबलयुक्तेनेत्यर्थः, शोधनं - अपनयनं तस्य कर्म्मविशेषेस्य 'वावि'त्ति सम्भावनायां 'होज्जा' सम्पद्येत नान्यो मोक्षोपायोऽस्तीति भावः, 'एत्तोये 'त्यादि इतश्चानन्तरं सुखविपाकेषु द्वितीयश्रुत-स्कन्धाध्ययनेष्वित्यर्थः यदाख्यायते तदभिधीयत इति शेषः, शीलं ब्रह्मचर्यं समाधिर्वा संयमः -प्राणातिपातविरतिर्नियमा अभिग्रहविशेषाः गुणाः शेषमूलगुणाः उत्तरगुणाश्च तपोऽनशनादि एतेषामुपधानं विधानं येषां ते तथा अतस्तेषु शीलसंयमनियमगुणतपउपधानेषु, केष्वित्याहसाधुषु यतिषु, किम्भूतेषु ? -सुष्ठु विहितं- अनुष्ठितं येषां ते सुविहितास्तेषु भक्तादि दत्त्वा यथा बोधिलाभादि निर्वर्तयन्ति तथेहाख्यायत इति सम्बन्धः, इह च सम्प्रदानेऽपि सप्तमी न दुष्टा, विषयस्य विवक्षणात्, अनुकम्पाअनुक्रोशस्तव्प्रधान आशयः- चित्तं तस्य प्रयोगोव्यावृत्तिरनुकम्पाशयप्रयोगस्तेन, तथा 'तिकालमति त्ति त्रिषु कालेषु या मति-बुद्धिर्यदुत दास्यामीति परितोषो दीयमाने परितोषो दत्ते च परितोष इति सा त्रैकालिमतिस्तया च यानि विशुद्धानि तानि तथा तानि च तानि भक्तपानानि चेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy