________________
समवायः- प्रकीर्णकाः
१३१ 'सूयगडेणं'तिसूत्रकृतेन सूत्रकृते वास्वसमयाः सूच्यन्ते इत्यादिकण्ठयं, तथा सूत्रकृतेनजीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षावसानाः पदार्था सूच्यन्ते, तथा 'समणाण'मित्यादि, अत्र श्रमणानां मतिगुणविशोधनार्थं स्वसमयः स्थाप्यत इति वाक्यार्थः, तत्र श्रमणानां किंभूतानां? - अचिरकालप्रव्रजितानां, चिरकालप्रव्रजिता हि निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाद्बहुश्रुतसंपर्काच्चेति, पुनः किंभूतानां ? -'कुसमयमोहमोहमइमोहियाणं ति कुत्सितः समयःसिद्धान्तो येषां ते कुसमयाः-कुतीर्थकास्तेषां मोहः-पदार्थेष्वयथावबोधः कुसमयमोहस्तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता-मूढतां नीता येषां ते कुसमयमोहमतिमोहिताः, अथवा कुसमयाः-कुसिद्धान्तास्तेषां ओधः-संधो मकारस्तु प्राकृतत्वात् तस्माद्यो मोहः-श्रोतृमनोमूढता तेन मतिर्मोहिता येषां ते कुसुमयोधमोहमतिमोहिताः, अथवा कुसमयानां-कुतीर्थिकानां मोहो मोधो वा-शुभफलापेक्षया निष्फलोयो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमोहमोहमतिमोहिताः कुसमयमोधमोहमतिमोहिता वा तेषां, तथा संदेहाः-वस्तुतत्त्वं प्रति संशयाः कुसमयमोहमतिमोहितानामिति विशेषणसान्निध्यात् कुसमयेभ्यः सकाशात् जाता येषां ते सन्देहजाताः।
तथा सहजात्-स्वभावसम्पन्नात् न कुसमयश्रवणसम्पन्नाद्बुद्धिपरिणामात्-मतिस्वभावात् संशयोजातो येषांते सहजबुद्धिपरिणामसंशयिताः सन्देहजातास्चसहजबुद्धिपरिणामसंशयिताश्च येते तथा तेषां श्रमणानामिति प्रक्रमः, किमत आह-'पापकरो' विपर्ययसंशयात्मकत्वेन कुत्सितवृत्ति निबन्धनत्वादशुभकर्महेतुरत एव च मलिनः-स्वरूपाच्छादनादनिर्मलो यो मतिगुणोबुद्धिपर्यायस्तस्य विशोधनाय-निर्मलत्वाधानाय पापकरमलिनमतिगुणविशोधनार्थं । __ 'असीयस्स किरियावाइयसयस्स'त्ति अशीत्यधिकस्य क्रियायादिशतस्य व्यूहं कृत्वा वसमयः स्थाप्यत इति योगः, एवं शेषेष्वपि पदेषु क्रियायोजनीयेति, तत्र न करिं विना क्रिया संभवतीति तामात्मसमवायिनीं वदन्ति ये तच्छीलाश्च ते क्रियावादिनः, ते पुनरात्माद्यस्तिवप्रतिपत्तिलक्षण अमुनोपायेनाशीत्यधिकशतासंख्या विज्ञेयाः-जीवाजीवाश्रवबन्धसम्बरनिर्जरापुण्यापुण्यमोक्षा-ख्यानवपदार्थान् विरचय्यपरिपाट्याजीवपदार्थस्याधः स्वपरभेदावुपयसनीयौ, तयोरधोनित्या-नित्यभेदौ, तयोरप्यधःकालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पाः कर्तव्याः-अस्तिजीवः स्वतो नित्यः कालत इत्येको विकल्पो, विकल्पार्थश्चायं विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनश्चतुर्थो नियतिवादिनः पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्चविकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैतेदशविकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः ।
अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणाशतमशीत्युत्तरं कियावादिनामिति, चउरासीए अकिरियवाईणति एतेषांच स्वरूपं यथा नन्द्यादिषु तथा वाच्यं, नवरमे तद्व्याख्याने पुण्यापुण्यवर्जा सप्त पदार्था स्थाप्यन्ते, तदधः स्वतः परतश्चेति पदद्वयं, दधः कालादीनां षष्ठी यद्दच्छा न्यस्यते, ततश्च नास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति।
'सत्तट्ठीए अन्नाणियवाईणं'ति एतेऽपितथैव, नवरंजीवादीनवपदार्थानुत्पत्तिदशमानुपरि व्यवस्थाप्याधः सप्त सदादयः स्थाप्याः, तद्यथा-सत्त्वमसत्त्वंसदसत्त्वमवाच्यत्वंसदवाच्यत्वमसद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org