________________
११७
समवाय: - ९३
वा-सर्वबाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्त्तमानो वा सर्वाभ्यन्तरात् सर्वबाह्यं प्रति गच्छन् व्यत्ययो वा व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः, अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्त्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहूर्त्तमहर्भवति रात्रिश्च द्वादशमुहूर्त्ता, सर्वबाह्ये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धेते हीयेते च यदा च दिनवृद्धिस्तदा रात्रिहानि रात्रिवृद्धौ च हिनहानिरिति,
तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तैकषष्टिभागद्वयवृध्या त्रयो मुहूर्त्ता एकेनैकषष्टिभागेनाधिकाः वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्त्तेषु मध्ये क्षिप्तेषु अष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्त्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्तो द्विनवतितममण्डलस्यार्द्धे समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनवतितमं मण्डलं चादित आरभ्य त्रिनवतितमं तत्र च मण्डले यथोक्तः सूत्रार्थ इति ।
समवायः - ९३ समाप्तः
समवायः - ९४
मू. (१७३) निसहनीलवंतियाओ णं जीवाओ चउनउइ जोयणसहस्साइं एक्कं छप्पन्नं जोयणसयं दोन्निय एगूणवीसइभागे जोयणस्स आयामेणं प० ।
अजियस्स णं अरहओ चउनउइ ओहिनाणिसया होत्था ।
वृ. अथ चतुर्नवतिस्थानके किञ्चिद्विविच्यते, 'निसहेत्यादि, इह पादोना संवादगाथा 'चउणउइसहस्साइं छप्पणहियं सयं कला दोय । जीवा निसहस्सेस"
समवायः - ९४ समाप्तः
समवायः - ९५
मू. (१७४) सुपासस्स णं अरहओ पंचानउइ गणा पंचानउइ गणहरा होत्था । जम्बुद्दीवस णं दीवस्स चरमंताओ चउद्दिसिं लवणसमुदं पंचानउइ पंचानउइ जोयणसहस्साइं ओगाहित्ता चत्तारि महापायालकलसा प० तं०-वलयामुहे केऊए जूयए ईसरे लवणसमुद्दस्स उभओपासंपि पंचानउयं पंचानउयं पदेसाओ उव्वेहुस्सेहपरिहाणीए प० कुंथू णं अरहा पंचानउइ वाससहस्साइं परमाउयं पालइत्ता सिद्धे बुद्धे जाव पहीणे । थेरे णं मोरियपुत्ते पंचानउइवासाइं सव्वाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे ।
वृ. अथ पञ्चनवतिस्थानके किञ्चिल्लिख्यते, लवणसमुद्रस्योभयपार्श्वतोऽपि पञ्चनवति प्रदेशा उद्वेधोत्सेधपरिहान्या विषये प्रज्ञप्ताः, अयमत्र भावार्थः लवणसमुद्रमध्ये दशसाहस्रिकक्षेत्रस्य समधरणीतलापेक्षया सहमुद्वेधः उण्डत्वमित्यर्थः, तदनन्तरं पञ्चनवतिं प्रदेशानतिक्रम्योद्वेधस्य प्रदेश हीयते, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा उद्वेधस्य प्रदेशः परिहीयते, एवं पञ्चनवतिर प्रदेशातिक्रमे प्रदेशमात्रस्य प्रदेशमात्रस्योद्वेधस्य हान्या पञ्चनवत्यां योजनसहेष्वतिक्रान्तेषु समुद्रतटप्रदेशेषु उद्वेधसहस्यापरि परिहानिर्भवतीत्यर्थः, समभूतलत्वं भवतीति, तथा समुद्रमध्यभागापेक्षया तत्तस्य साहस्रिक उत्सेधो भवति, उत्सेधश्चोच्चत्वं, तत्र समधरणीतलरूपात्तत्तटात्पञ्चनवतिं प्रदेशानतिक्रम्य एकप्रदेशिकाउत्सेधस्य परिहानिर्भवति, ततोऽपि पञ्चनवतिं प्रदेशान् गत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org