________________
समवायः - ९१
भक्तपानादिभिरुपष्टम्भक्रियास्तद्विषयाः प्रतिमाः- अभिग्रहविशेषाः परवैयावृत्त्यकर्म्मप्रतिमाः, एतानि च प्रतिमात्वेनाभिहितानि क्वचिदपि नोपलब्धानि, केवलं विनयवैयावृत्त्यभेदा एते सन्ति, तथाहि - दर्शनगुणाधिकेषु सत्कारादिर्दशधा विनयः, आह च -
॥१॥
“सक्कार १ भुट्ठाणे २ सम्माणे ३ आसणग्गहो ४ तहय । आसणअणुप्पयाणं ५ किइकम्मं ६ अञ्जलिगहो य ७ ॥ इंतरसगुणच्छणया ८ ठियस्स तह पज्जुवासणा भणिया ९ । गच्छंताणुव्वणं १० एसो सुस्सूसणाविणओ' ॥
॥२॥
तत्र सत्कारो-वन्दनस्तवनादि १ अभ्युत्थानं आसनत्यागः २ सन्मानो - वस्त्रादिपूजनं ३ आसनाभिग्रहः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४ आसानुप्रदानं आसनस्य स्थानात् स्थानान्तरसञ्चारणं ४ कृतिकमर्म्मादीनि प्रकटानि, तथा तीर्थङ्करादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे षष्टिविधोऽनाशातनाविनयो भवति, तथाहि ।
॥ १ ॥ तित्थयर १ धम्म २ आयरिय ३ वायग ४ थेरे ५ कुल ६ गणे ७ सङ्घ ८ । सम्भो इय ९ किरियाए १० मइनाणाई १५ य तहेव ॥
अत्र भावना - तीर्थकराणामनाशातना तीर्थकराशातना, तीर्थङ्करप्रज्ञप्तस्य धर्मस्य अनाशातनाविनयः, एवं सर्वत्र भावना कर्तव्या ।
119 11
११५
“अणसायणाय भत्ती बहुमाणो तहय वण्णवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥ तथौपचारिकविनयः सप्तधा यदाह ।
“अब्भासासण १ छंदाणुवत्तणं २ कयपडिकिई तहय ३ । कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय ॥ तह देसकालजाणण सव्वत्थे तहय अणुमई भणिया ७ । -उवयारिओ उ विणओ एसो भणिओ समासेणं । इति अभ्यासासनं-उपचरणीयस्यान्तिकेऽवस्थानं छन्दोऽनुवर्त्तनं- अभिप्रायानुवृत्तिः कृतप्रतिकृतिर्नाम - प्रसन्ना आचार्या सूत्रादि दास्यन्ति न नाम निरिति मन्यमानस्याहारदिदानं कारितनिमित्तकरणं-सम्यक्शास्त्रपदमध्यापितस्य विशेषेण विनये वर्त्तनं तदर्थानुष्ठानं च, शेषाणि प्रसिद्धानि, तथा वैयावृत्यं दशधा, यदाह
119 11
॥१॥
॥२॥
"आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं । साहम्मिय कुलगणसंघयसङ्गयं तमिह कायव्वं ॥
तत्र प्रव्राजना १ दिगु २द्देश ३ समुद्देश ४ वाचना ५ चार्यविनयो भवति, तथौपचारिकविनयोऽभ्यासवृत्तादि सप्तधा, तथा वैयावृत्त्यं दशभेदादाचार्यस्य च पञ्चविधत्वात्तदेवं चतुर्दशधेत्येकनवतिर्विनयभेदा एते एव अभिग्रहविषयीभूताः प्रतिमा उच्यन्त इति ।
दर्श० १० अना० ६० औप० ७ वैया० १४ ।
तथा 'कालो 'ति कालोदः समुद्रः, स चैकनवतिर्लक्षाणि साधिकानि परिक्षेपेण, आधिक्यं च सप्तत्या सहैः षडभि शतैः पञ्चोत्तरैः सप्तदशभिर्धनुःशतैः पञ्चदशोत्तरैः सप्ताशीत्या चाङ्गुलैः साधिकैरिति 'आहोहिय'त्ति नियतक्षेत्रविषयावधयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org