SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ११० समवायाङ्गसूत्रम्-८४/१६३ _ 'हरिवासे'त्यादि 'चत्तारि य भागा जोयणस्स'त्ति एकोनविंशतिर्भागाः इहार्थे गाथार्द्ध'धनुपिट्ठकलचउक्कं चुलसीइसहस्स सोलसहिय'त्ति तथा पङ्कबहुलं काण्डं द्वितीयं तस्य च बाहल्यं चतुरशीति सहस्राणीति यथोक्तः सूत्रार्थ इति। तथा व्याख्याप्रज्ञप्त्यां-भगवत्यां चतुरशीतिः पदसहस्राणि पदाग्रेण-पदपरिमाणेन, इह च यत्रार्थोपलब्धिस्तत्पदं, मतान्तरेणतुअष्टादशपदसहस्रपरिमाणत्वादाचारस्य एतद्दिवगुणत्वाच्च शेषाङ्गानां व्याख्याप्रज्ञप्तिढे लक्षे अष्टाशीति सहस्राणि पदानां भवन्तीति। तथा चतुरशीतिर्नागकुमारावासलक्षाणि-चतुश्चत्वारिंशतोदक्षिणायांचत्वारिंशतश्चोत्तरायां भावादिति, चतुरशीतिर्योनयो-जीवोत्पत्तिस्थानानि ता एव प्रमुखानि-द्वाराणि योनिप्रमुखानि तेषां शतसहस्राणि-लक्षाणि योनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, कथं? ॥१॥ “पुढविदगअगणिमारुय एक्केक्के सत्त जोणिलक्खाओ। वण पत्तेय अनंते दस चउदस जोणिलक्खाओ॥ ॥२॥ विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसु। तिरिएसु होंति चउरो चोद्दसलक्खा उ मणुएसु॥ इहचजीवोत्पत्तिस्थानानामसंख्येत्वेऽपिसमानवर्णगन्धरसस्पर्शानांतेषामेकत्वविवक्षणान्न यथोक्तयोनिसंख्याव्यभिचारो मन्तव्य इति, पुब्वाइयाणमित्यादि, पूर्वमादिर्येषांतानिपूर्वादिकानि तेषां शीर्षप्रहेलिका पर्यवसाने येषां तानि शीर्षप्रहेलिकापर्यवसानानि तेषा स्वस्थानात्पूर्वपूर्वस्थानादुत्तरोत्तरस्य संस्थानस्योत्पत्तिस्थानात् संख्याविशेषलक्षणात् गुणनीयादित्यर्थः 'स्थानान्तराणि' स्थानान्तराण्यपि अनन्तरस्थानान्यव्यहितसङ्ख्याविशेषा गुणकारनिष्पन्ना येषु तानि स्वस्थानस्थानान्तराणि क्रमव्यवस्थितसङ्ख्यानविशेषा इत्यर्थः अथवा स्वस्थानानि चपूर्वस्थानानि स्थानान्तराणि च-अनन्तरस्थानानि स्वस्थानान्तराणिअथवा स्वस्थानात-प्रथमस्थानात् पूर्वाङ्गलक्ष-णात्स्थानान्तराणि-विवक्षितस्थानानि स्वस्थानस्थानान्तराणि तेषांचतुरशीत्या लक्षैरिति शेषः, गुणकारः- अभ्यासरासिः प्रज्ञप्तः। तथाहि-किल चतुरशीत्या वर्षलक्षैःपूर्वाङ्गं भवतीतिस्वस्थानं, तदेव चतुरशीत्यालक्षैर्गुणित - पूर्वमुच्यते, तच्च स्थानान्तरमिति, एवं पूर्वं स्वस्थानं तदेव चतुरशीत्या लक्षैर्गुणितमनन्तरस्थानं त्रुटिताङ्गाभिधानं भवतीति, इह सङ्ग्रहगाथा। ॥१॥ 'पुव्वतुडियाडडाववहुहूय तह उप्पले य पउमेय । नलिणच्छिनिउर अउए नउए पउए य नायव्वो॥ . ॥२॥ . चूलियसीसपहेलिय चोद्दस नामा उ अङ्गसंजुत्ता।। अट्ठावीसं ठाणा चउणउयं होइ ठाणसयं ॥ अभिलापश्चैषां-पूर्वाङ्गं पूर्वं त्रुटिताङ्गं त्रुटितमित्यादिरिति, 'चउरासिति'मित्यादि, चतुरशीतिसंख्यास्थानकविवरणलेख्यं,इह विभागोऽयं । ॥१॥ बत्तीस अट्ठवीसा बारट्ट चउर सयसहस्साई। आरेण बंभलोगा विमाणसंखा भवे एसा ॥ ॥२॥ पञ्चास चत्त छच्चेव सहस्सा लंत सुक्क सहसारे। सय चउरो आणयपाणएसुतिण्णारणचुयओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003308
Book TitleAgam Suttani Satikam Part 04 Samavayang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy