________________
समवायः - ८०
१०७
सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेषं तु महाराज्ये इति ।
'आउबहु' इत्यादि, किल रत्नप्रभाया अशीत्यत्तरयोजनलक्षबाहल्यायीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरत्नमं षोडशसहस्त्रबाहल्यं द्वितीयं पङ्ककाण्डं चतुरशीतिसहस्रमानं तृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति ।
'जम्बुद्दीवेण' मित्यादि, 'ओगाहित्त' त्ति प्रविश्य 'उत्तरकट्ठोवगय'त्ति उत्तरा काष्ठांदिशमुपगतः उत्तरकाष्ठोपगतः प्रथममुदयं करोति, सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः ।
समवायः-८० समाप्तः
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरि विरचिता समवायाङ्गे अशीतितम समवायस्य टीका परिसमाप्ता ।
समवायः-८१
मू. (१६०) नवनवमिया णं भिक्खुपडिमा एक्कासीइ राइदिएहिं चउहि य पंचुत्तरेहिं अहासुत्तं जाव आराहिया ।
कुंथुस्स णं अरहओ एक्कासीतिं मणपज्जवनाणिसया होत्था । विवाहपन्नत्तीए एकासीतिं महाजुम्मसया प० ।
वृ. अथैकाशीतिस्थानके किञ्चदुच्यते- 'नवनवमिके' ति नव नवमानि दिनानि यस्यां सा नवनवमिका भवंति च नवसुनवकेषु नव नवमदिनानि, तस्यां च भिक्षुप्रतिमायामेकाशीती रात्रिंदिनानि भवति, एवं नवानां नवकानामेकाशीतिरूपत्वात्, तथा प्रथमे नवमे प्रतिदिनमेकैका भिक्षा एवमेको त्तरया वृध्या नवमे नवके नव नवेति सर्वासां पिण्डने चत्वारि पञ्चोत्तराणि भिक्षाशतानि भवन्तीत्यत उक्तं ‘चउहि ये' त्यादि, इह च भिक्षाशब्देन दत्तिरभिप्रेता 'अहासुत्तं 'ति यथासूत्रंसूत्रानतिक्रमेण 'जाव' त्तिकरणाद्यथाकल्पं यतामार्गं यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्त्तिता आज्ञयाऽऽराधितेते द्रष्टव्यं ।
‘विवाहपन्नत्तीए’त्ति व्याख्याप्रज्ञप्तयामेकाशीतिर्म्महायुग्मशतानि प्रज्ञप्तानि, इह च शतशब्देनाध्ययनान्युच्यन्ते तानि कृतयुग्मादिलक्षणराशिविशेषविचाररूपाणि अत्रान्तराध्ययनस्वभावानि तदवगमावगम्यानीति ।
समवायः-८१ समाप्तः
समवायः-८२
मू. (१६१) जम्बुद्दीवे दीवे बासीयं मंडलसयं जं सूरिए दुक्खुत्तो संकमित्ता णं चारं चरइ तंo - निक्खममाणे य पविसमाणे य ।
समणे भगवं महावीरे बासीए राइदिएहिं वीइक्कतेहिं गब्भाओ गब्धं साहरिए । महाहिमवतस्स णं वासहरपव्वयस्स उवरिल्लाओ चरमंताओ सोगंधियस्स कंडस्स हेट्ठिल्ले चरमंते एस णं बासीइं जोयणसयाइं अबाहाए अंतरे प एवं रुप्पिस्सवि ।
वृ. अथ द्वयशीतिस्थानके किमपि लिख्यते, अत्र जम्बूद्वीपे द्वयशीत्यधिकं मण्डलशतंसूर्यस्य मार्गशतं तद्भवतीति वाक्यशेषः, किंभूतं ? - यत् सूर्यो द्विकृत्वो द्वौ वारौ सङ्क्रम्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org