________________
समवायाङ्गसूत्रम्-१/१
वा तद्भाव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह
लोकस्य-विशिष्टतिर्यग्नरामररूपस्यान्तरमितिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वाप्रदीप इव प्रदीपो लोकप्रदीपस्तेन, इदं च विशेषणं द्रष्टुलोकमाश्रित्योक्तम् -
अथ श्यलोकमाश्रित्याह-लोकस्य-लोक्यते इति लोक इतिव्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तेन प्रद्योतं-प्रकाशंकरोतीत्येवंशीलो लोकप्रद्योतकरस्तेन, ननु लोकनाथत्वादिविशेषणयोगी हरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायां तद्विशेषाभिधानायाह
नभयं दयते-प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः अभया वासर्वप्राणिभयपरिहारवती दया-घृणा यस्यासावभयदयो, हरिहरादिस्तु नैवमिति, तेनाभयदयेन, न केवलमसावपकारकारिणामप्यनर्थपरिहारमानं करोति अपित्वर्थप्राप्तिं करोतीति दर्शयन्नाह।
चक्षुरिव चक्षु-श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाच्चितस्थानमार्ग दर्शयन् महोपकारी भवतीत्येवमिहापीति दर्शयन्नाह
मार्ग-सम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षुरुदघाटनं मार्गदर्शनंच कृत्वा चौरादिविलुप्ता निरुपद्रवं स्थानंप्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपहतानां तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयस्तेन।
यथा हि लोके चक्षुर्मार्गशरणदानात् दुःस्थानांजीवितव्यं ददाति एवमिहापीति दर्शयन्नाहजीवनं जीवो-भावप्राणधारणमरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा दया यस्य स जीवदयोऽतस्तेन, इदं चान्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात्सम्पन्नमिति धर्मात्मकतामस्यान्य- विशेषणपच्चकेनाह-धर्म-श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधारणस्वभावं दयतेददातीति धर्मदयस्तेन, तद्दानं चास्य तद्देशनादेवेत्यत आह -
धर्मम्-उक्तलक्षणंदेशयति-कथयतीतिधर्मदेशकस्तेन, धर्मदेशकत्वंचास्यधर्मस्वामित्वे सति न पूनर्यथा नटस्येति दर्शयन्नाह -
धर्मस्य-क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायकः-स्वामी यथावत्पालनाद्धर्मनायकस्तेन, तथा धर्मस्य सारथिर्धर्मसारथि, यथारथस्यसारथी रथंरथिकमश्वांश्चरक्षति एवं भगवांश्चारित्रधमङ्गिानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति तेन धर्मसारथिना,
तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ पृथिव्याः चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायीवरचातुरन्तचक्रवर्ती भवति तथा भगवान्धर्मविषये शेषप्रणेतृणां मध्येसातिशयत्वात्तथोच्यतइतितेन धर्मवरचातुरन्तचक्रवर्तिना, एतच्च धर्मदायकत्वादिविशेषणपच्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आह -
अप्रतिहते-कटकुड्यपर्वतादिभिरस्खलिते अविसंवादके वाअत एव क्षायिकत्वाद्वावरेप्रधाने ज्ञानदर्शने केवललक्षणे धरयतीति अप्रतिहतवरज्ञानदर्शनधरस्तेन, एवंविधसंवेदन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org