________________
स्थानं - २, - उद्देशकः -३
९३
कुरुसूत्रानन्तरं तत्र 'कूडसामली चेव जंबू सुदंसणे' ति उक्तमिह तु जम्बूस्थाने 'धाइयरुक्खे चेव' त्ति वक्तव्यम्, प्रमाणं च तयोर्जम्बूदीपकशाल्मल्यादिवत्, तयोरेव देवसूत्रे 'अनाढिए चेव जंबुद्दीवाहिवई' त्यत्र वक्तव्ये 'सुदंसणे चेव' त्तीह वक्तव्यमिति । 'धायइसंडे दीवे' त्यादि पश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसर्त्तव्यम्, अत एवाह- 'जाव छव्विहंपि काल' मित्यादि, विशेषमाह- 'नवरं कूटसामली' त्यादि, धातकीखण्डपूर्वाद्धत्तरकुरुषु धातकीवृक्ष उक्त इह तु प्रियदर्शनोऽध्येतव्य इति,
पूर्वार्द्धपश्चार्द्धमीलनेन घातकीखण्डदीपं सम्पूर्णमाश्रित्य द्विस्थानकं 'घायइसंडे' णमित्यादिनाह - द्वे मरते पूर्वार्ध्य पश्चार्ध्ययोर्यद्दक्षिणदिग्भागे तयोर्भावादित्येवं सर्वत्र, भरतादीनां स्वरूपं प्रागुक्तम्, 'दो देवकुरुमहादुमे 'ति द्वौ कूटशाल्मकीवृक्षावित्यर्थः द्वौ तद्वासिदेवी वेणुदेवावित्यर्थः, 'दो उत्तरकुरुमहद्दुमे 'ति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवी सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड्वर्षधरपर्वताः शब्दापातिविकटापातिगन्धापातिमालवत्पर्याया- ख्यवृत्तैवताढ्याश्च तन्निवासिस्वातिप्रभसारुणपद्मनाभदेवाना द्वयेन द्वयेन सहिताः क्रमेण द्वौ दावुक्तौ
'दो मालवंत 'त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वर्त्तिनौ गजदन्तकौ स्तः, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परौ शीतोत्तरकूलवर्त्तिनो दक्षिणोत्तरायती चित्रकूटी वक्षस्कारपर्वती, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामर्वाक् शीतादक्षिणकूलवर्त्तीनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसी देवकुरुपूर्वदिग्वर्त्तिनौ गजदन्तकी, ततो गजदन्तकावेव देवकुरुप्रत्यग्भावर्त्तिन विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतः तथैवाङ्कावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकूलवर्त्तीनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनां चत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्त्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूर्वार्द्ध पश्चिमार्द्धे च भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकीखण्डविभागकारिणाविति, 'दो चुल्लहिमवंतकूडाइत्यादि, हिमवदादयः षड् वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकैकशो द्वे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहूदा अपि द्विगुणास्तद्देव्योऽप्येवमिति ।
चतुर्द्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमाद्धपिक्षया द्विगुणत्वात् तत्प्रपातहूदा अपि द्वौ द्वौ स्युरित्याह- 'दो गंगापवायद्दहे 'त्यादि, 'दो रोहियाओ' इत्यादौ नद्यधिकारे गङ्गादीनां सदपि द्वित्त्वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य "महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दो महानदीओ पवहंती" त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हि रोहिदादय एवाष्टी श्रूयन्त इति, चित्रकूटपद्मकूटवक्षस्कारपर्वतयोरन्तरे नीलवद्वर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गताऽष्टाविंशतिनदीसहपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोर्विभागकारिणी ग्राहवती नदी, एवं यथायोगं द्वयोर्द्वयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशप्यन्तरनद्यो योज्याः, तद्दिवत्त्वं च पूर्ववदिति, पङ्कवतीत्यत्र वेगवतीति ग्रन्थान्तरे श्यचे, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च दृश्यते इति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org