________________
स्थानं-२, - उद्देशकः-३
८७ "जंबू'इत्यादि, ‘एगजुगे'त्ति पञ्चाब्दिकः कालविशेषो युगं तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एगसमए एगजुगे' इत्येवं पाठेऽपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावर्हतां वंशौ-प्रवाहावेकोभरतप्रभवोऽन्य एरवतप्रभव इति । 'दसार'त्ति दसाराःसमयभाषया वासुदेवाः । 'जंबू' इत्यादि, सदा-सर्वदा सुसमसुसमंतिप्रथमारकानुभागःसुषमसुषमा तस्याः सम्बन्धिनी या सासुषमसुषमैव तां उत्तमर्द्धि-प्रधानविभूतिं उच्चस्त्वायुःकल्पवृक्षदत्तभोगोपभोगादिकांप्राप्ताःसन्तस्तामेवप्रत्यनुभवन्तो-वेदयन्तोनसत्तामात्रेणेत्यर्थः, अथवासुषमसुषमांकालविशेषं प्राप्ताः-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयते च
“दोसुवि कुरासुमनुया तिपल्लपरमाउणो तिकोसुच्चा।
पिट्टिकरंडसयाई दो छप्पन्नाई मनुयाणं ॥२॥ सुसमसुसमानुभावं अनुभवमाणाणऽवच्चगोवणया।
अउणापन्नदिणाइं अट्ठमभत्तस्स हारो" (इति)। देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति । 'जंबू'इत्यादि, 'सुसमं'ति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च॥१॥ "हरिवासरंमएसुंआउपमाणं सरीरउस्सेहो ।
पलिओवमाणि दोन्नि उ दोन्नि य कोसा समा भणिया ॥२॥ छठस्स य आहारो चउसद्विदिनानुपालणा तेसिं।
पिट्टिकरंडाण सयं अट्ठावीसं मुणेयव्वं" (इति)। 'जंबू'इत्यादि, ‘सुसमदुस्समंतिसुषमदुष्षमा-तृतीयारकानुभागस्तस्यायासा सुषमदुष्षमा ऋद्धिः, शेषं तथैव, उच्यतेच॥१॥ “गाउयमुच्चा पलिओवमाउणो वज़रिसहसंघयणा ।
___हेमवएरन्नवए अहमिंदनरा मिहुणवासी ॥२॥ चउसट्ठी पिट्टिकरंडयाण मनुयाण तेसिमाहारो।
भत्तस्स चउत्थस्स य उणसीतिदिनानुपालणया" (इति)। 'जंबू'इत्यादि, 'दूसमसुसमं'ति दुष्षमसुषमा चतुर्थारप्रतिभागस्तत्सम्बन्धिनी ऋद्धिर्दुष्षमसुषमैव, शेषं तथैव, अधीयतेच॥१॥ 'मणुयाण पुव्वकोडी आउं पंचुस्सिया धनुसयाई ।
दूसमसुसमानुभावं अनुहोति नरा निययकाल" (इति)। 'जंबूद्दीवे' इत्यादि, 'छव्विहंपि'त्ति सुषमसुषमादिकंउत्सर्पिण्यवसर्पिणीरूपमिति ।अनन्तरं जम्बूद्वीपे काललक्षणद्रव्यपर्यायविशेषा उक्ताः, अधुना तु जम्बूद्वीप एव कालपदार्थव्यञ्जकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह
मू (९०) जंबुद्दीवे दीवे दो चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, दो सूरिआ तविंसु वा तवंति वा तविस्संति वा, दो कत्तिया, दो रोहिणीओ, दो मगसिराओ, दो अदाओ, एवं भाणियव्वं,।
वृ. 'जंबुद्दीवे इत्यादिसूत्रद्वयं, पभासिंसुवत्तिप्रभासितवन्तौ वाप्रकाशनीयमेवंप्रभासयतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org