________________
स्थानं - २, - उद्देशकः - ३
८५
जलान्ताद् द्विक्रोशोच्छ्रितो वज्रमयो गङ्गादेवीभवनेन क्रेशायामेन तदर्द्धविष्कम्मेन किञ्चिदूनक्रोशोच्चेनानेकस्तम्भशतसन्निविष्टेनालङ्क तोपरितनभागः,
यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवाहे सक्रोशषड्योजनविष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्ग उत्तरभरतार्द्ध विभजन्ती सप्तभिः नदीसहस्रपूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताढ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्द्दशभिर्नदीस है: समग्रा मुखे सार्द्धद्विषाष्टियोजनविष्कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति स गङ्गाप्रपातहूदः, एतदनुसारेण सिन्धुप्रपातहूदोऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भौद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यच्चेहव र्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात्, तासां हि एकैकस्मात् पर्वतात् त्र्यं त्रयं प्रवहतीति द्विस्थानके नावतरा इति । 'एव 'मित्यादि, एवमिति प्राग्वत् 'रोहियप्पवायद्दहे चेव' त्ति रोहिद् - 'उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिकं योजनशतमायामविष्कम्भाभ्यां किञ्चिन्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद् द्वीपः षोडशयोजनायामविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विक्रशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनसमानेन विभूषितोपरितनभागः स रोहिठापातह्रद इति ।
‘रोहियंसप्पवायद्दहे चेव’त्ति हिमवद्वर्षधरपर्वतोपरिवर्त्तिपद्महूदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेकं उत्तराभिमुखी पर्वतेनगत्वा योजनायामया अर्द्धत्रयोदशयोजनविष्कम्भया क्रेशबाहल्यया जिह्निकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहिप्रपातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपो रोहिद् द्वीपसमानमानः रोहितांशाभवनेन प्रागुक्तमानेनालङ्कृतः, यतश्च रोहितांशानदी रोहिन्नदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं प्रविशति स रोहितांशाप्रपातहूद इति 'जंबू' इत्यादि, 'हरिप्पवायद्दहे चेव 'त्ति हरिनदी प्रागुक्तलक्षणा यत्र निपतति यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकनोषष्टयधिकानि परिक्षेपेण यस्य च मध्यभागे हरिद्देवताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विकोशोच्छ्रितो हरिद्देवताभवनभूषितोपरितनभागोऽसौ हरिव्प्रपातहूद इति । 'हरिकंतप्पवायद्दहे चेव' त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद् द्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातहूद इति ।
'जंबू' इत्यादि, 'सीयप्पवायद्दहे चेव'त्ति यत्र नीलवत; शीता निपतति यश्च चत्वार्यशीत्यधिकानियोजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यनानि परिक्षेपेण यस्य च मध्ये शीताद्विीपश्चतुःषष्टियोजनायामविष्कम्भो ह्युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहूद इति, 'सीतोदप्पवायद्दहे चेव'त्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहूदः शीतोप्रपातह्रदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति ।
'जंबू' इत्यादि, नरकान्तानारीकान्ताप्रपातहूदौ च हरिकान्ताहरित्प्रपातहूदसमानौ स्वसमाननामद्वीपदेविकाविति । 'एव' मित्यादि, सुवर्णकूलारूप्यकूलाप्रपातहूदी रोहितांशारोहिा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International