________________
स्थानं-२, - उद्देशकः -३
सेसवणदेवयाणं देसूणं अद्धपलियमुक्कोसं ।।" (ति), तयोश्चमहाह्रदयोर्मध्येयोजनमाने पद्मअर्द्धयोजनबाहल्ये दशावगाहेजलालन्ता द्विकोशोच्छ्रये वज्र १ रिष्ठ २ वैडूर्य ३ मूल १ कन्द २ नाले वैडूर्य १ जाम्बूनद २मयवाह्या १ भ्यन्तरपत्रे कनककर्णिके तपनीयकेसरे, तयोः कर्णिके अर्द्धयोजनमाने तदर्द्धबाहल्ये तदुपरि देव्योर्भवने इति । एव'मित्यादि, महाहिमवति महापद्मो रुक्मिणि तु महापौण्डरीकः, तौ च द्विसहस्रायामौ तदर्द्धविष्कम्भौ द्वियोजनमानपद्मव्यासवन्तौ, तयोर्दैवते परिवसतो महापद्मे हीमहापुण्डरीके बुद्धिरिति । 'एव'मित्यादि, निषधे तिगिंछहूदे धृतिर्देवता नीलवति केसरिहूदे कीर्तिदेवता, तौ च हूदौ चतुर्द्विसहायामविष्कम्भाविति, भवति चात्र गाथा - ॥१॥ “एएसु सुरवहूओ वसंति पलिओवमद्वितीयाओ।
सिरिहिरिधितिकित्तीओ बुद्धीलच्छीसनामाओ॥" (त्ति) 'जंबू' इत्यादि, तत्र रोहिन्नदी महापद्महूदाद्दक्षिणतोरणेन निर्गत्य षोडश पञ्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गत्वाहाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेन क्रोशं बाहल्येन, रोहित् प्रपातकुण्डाच्च दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवतिनं शब्दापातिवृत्तवैताढ्यमर्द्धयोजनेनाप्राप्याष्टाविंशत्या नदीसहैः संयुज्याधोजगतीं विदार्यपूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा क्रोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एव सर्वा महानद्यः पर्वता कूटानि च वेदिकादियुक्तानीति,
हरिकान्तातुमहापद्महदादेवोत्तरतोरणेन निर्गत्य पञ्चोत्तराणि षोडशशतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्वा सातिरेकयोजन- शतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपतति, मकरमुखजिबिकाप्रमाणं पूर्वोक्तद्विगुणं, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवर्त्तिनं गन्धापतिवृत्तवैताढ्यंयोजनेनासम्प्राप्तापश्चिमाभिमुखीभूताषट्पञ्चाशता सरित्सहैः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिनदीतो द्विगुणेति । ___ एवमित्यादि, एवमिति, ‘जंबूद्दीवे' त्याद्यभिलापसूचनार्थः हरिन्महानदी तिगिछिहूदस्य दक्षिणतोरणेन निर्गत्यसप्तयोजनसहस्राणिचत्वारि चैकविंशत्यधिकानियोजनशतानिसातिरेकाणि दक्षिणाभिमुखी पर्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन हरिकुण्डे निपत्य पूर्वसमुद्रे प्रपतति, शेषं हरिकान्ता समानमिति ।
___ शीतोदामहानदी तिगिछिहूदस्योत्तरतोरणेन निर्गत्य तावन्त्येव योजनसम्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, जिह्निका मकरमुखस्य चत्वारियोजनानिआयामेन पञ्चाशद्विष्कम्मेणयोजनंबाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् विभजन्ती चित्रविचित्रकूटौ पर्वतौ निषधहूदादींश्च पञ्च ह्रदान् द्विधा कुर्वती चतुरशीत्या नदीसहैरापूर्यमाणाभद्रशालावनमध्येनमेलंयोजनद्वयेनाप्राप्ता प्रत्यमुखीआवर्तमाना अधो विद्युत्प्रभं वक्षारपर्वतं दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन एकैकस्माद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org