SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्थानाङ्ग सूत्रम् २/१/६१ मू. (६९) दो दंडा पं० तं० - अट्ठादंडे चेव अनट्ठादंडे चेव, नेरइयाणं दो दंडा पं० तंo - अट्ठादंडेय अणझांडेय, एवं चउवीसा दंडओ जाव वेमाणियाणं वृ. उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं वा भवतीति दण्डं निरूपयन्नाह - 'दो दंडे' त्यादि, दण्डः- प्राणातिपातादिः, स चार्थाय इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह'नेरइयाण' मित्यादि, 'एव' मिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयो, नवरं - नारकस्य स्वशरीरक्षार्थं परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति । सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुर्द्दर्शनं सामान्येन ५६ तावन्निरूपयति-तत्र मू. (७०) दुविहे दंसणे पन्नत्ते तं० सम्मद्दंसणे चेव मिच्छादंसणे चेव १, सम्मदंसणे दुविहे पं० तं० निसग्गसम्मद्दंसणे चेव अभिगमसम्मद्दंसणे चेव २, निसग्गसम्मद्दंसणे दुविहे पं० तं० पडिवाई चेव अपडिवाई चेव ३, अभिगमसम्मदंसणे दुविहे पं० तं०- पडिवाई चैव अप्पडिवाई चेव ४, मिच्छादंसणे दुविहे पं० - अभिग्गहियमिच्छादंसणे चेव अणभिगहियमिच्छादंसणे चेव ५, अभिग्गहियमिच्छादंसणे दुविहे पं० सपज्जवसिते चेव अपज्जवसिते चैव ६, एवमनभिगहितमिच्छादंसणेऽपि ७ । वृ. 'दुविहे दंसणे' इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिर्दर्शनम् तत्त्वेषु रुचिः तच्च सम्यग् - अविपरीतं जिनोक्तानुसारि, तथा मिध्या- विपरीतमिति । 'सम्मद्दंसणे' इत्यादि, निसर्गः स्वभावोऽनुपदेश इत्यनर्थान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतवदिति, 'निसर्गे त्यादि, प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकंक्षायोपशमिकं च, अप्रतिपाति क्षायिकं तत्रैषां क्रमेण लक्षणं- इहीपशमिकीं श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोहनीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिध्यादृष्टिकृतसम्यकत्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमिथ्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिध्यादर्शनोऽक्षपक इत्यर्थः, सम्यकत्वं प्रतिपद्यते तस्यैौपशमिकं भवतीति, कथं? - इह यदस्य मिथ्यादर्शनमोहनीयमुदीर्णं तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मूहूर्त्तमात्रमुपशान्तमास्ते, विष्कम्भितोदयमित्यर्थं, तावन्तं कालमस्यौपशमिकसम्यकत्वलाभ इति, आह च“उवसासगसेढिगयस्स होइ उवसामिअं तु सम्मत्तं । जो वा अकयतिपुञ्ज अखवियमिच्छो लहइ सम्मं खीणम्मि उदिन्नंमी अनुदिज्जंते य सेसमिच्छत्ते । अंतोमुहत्तकालं उवसम्सम्मं लहइ जीवो " त्ति । ॥१॥ अन्तर्मुहूर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यकत्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समयमात्रत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org ॥२॥ ·
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy