________________
स्थानं - २, - उद्देशक: -१
सकलं
वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा- अनन्यसध्शत्वादनन्तं वा-ज्ञेयनन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ॥
कथं पुनर्द्धर्मादीनि विद्याचरणस्वरूपाणि प्राप्नोतीत्याह- 'दो ठाणाइ' मित्याद्येकादशसूत्री मू. (६५) दो ठाणाई परियादित्ता आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं ०आरंभे चैव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेजा ।
५५
वृ. सुगमा । धर्म्मादिलाभ एव पुनः कारणान्तरद्वयमाह
मू. (६६) दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए तं०- सोच चेव अभिसमेच्च चेव जावकेवलनाणं उप्पाडेज्जा ।
वृ. 'दोहि' त्यादि सुगमं, केवलं 'श्रवणतया' श्रवणभावेन, 'सो च चेव' त्ति ईस्वत्वादि प्राकृतत्वादेव, श्रुत्वा - आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवावबुध्येत्यर्थः, उक्तं च
-
119 11
"
“सद्धर्मश्रवणादेव, नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः धम्मपादेयतां ज्ञात्वा सञ्जातेच्छोऽत्र भावतः दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्त्तते " इति,
॥ २ ॥
'एवं बोहिं बुज्झेञ्जेत्यादि यावत् केवलनाणं उप्पाडेज्ज' त्ति । केवलज्ञानं च कालविशेषे भवतीति तमाह
मू. (६७) दो समाओ पन्नत्ताओ, तं० - ओसप्पिणी समा चेव उस्सप्पिणी समा चेव वृ. समा- कालविशेषः, शेषं सुगमम् ।। केवलज्ञानंमोहनीयोन्मादक्षय एव भवत्यतः सामान्योनोन्मादं निरूपयन्नाह
मू. (६८) दुविहे उम्माए पं० तं०- जक्खावेसे चेव मोहणिज्जस्स चेव कम्मस्स उदएणं, तत्थ पंजे से जक्खावेसे सेणं सुहवेयतराए चेव सुहविमोयतराए चेव, तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं सेणं दुहवेयतराए चेव दुहविभोययराए चेव ।
वृ. 'दुविहे उम्माए' इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः- देवताधिष्ठितत्वं ततो यः स यक्षावेश एवेत्येको, मोहनीयस्य दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रे' ति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव-मोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रे' त्तितयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव-मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते- त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयः-सुखापनेयः सुखापेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचत्तरक इति, मोहजस्तु तद्विपरीतः, एकान्तिकात्यन्तिकभ्रामस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनान्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राघ्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं-'दुहवेयतराए चेव दुहविमोअतराए चेव'त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org