SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ स्थानं - १०, तथा दशार्णभद्रो दशार्णपुरनगरवासी विश्वंभराविभुः यो भगवन्तं महावीरं दशार्णकूटनागरनिकटसमवसृतमुद्यानपालवचनादुपलभ्य यथा न केनापि वन्दितो भगवांस्तथा मया वन्दनीय इति राज्यसम्पदवलेपाद्भक्तितश्च चिन्तयामास, ततः प्रातः सविशेषकृतस्नानविलेपनाभरणा दिविभूषः प्रकल्पितप्रधानद्विपपतिपृष्ठाधिरूढो वल्गनादिविविधक्रियाकारिसदर्प्पसर्प्पच्चतुरङ्गसैन्य- समन्वितः पुष्माणवसमुद्धुष्यमाणागणितगुणगणः सामन्तामात्यमन्त्रिराजदौवारिकदूतादिपरिवृतः सान्तःपुरपौरजनपरिगत आनन्दमयमिव सम्पादयन् महीमण्डलमाखण्डल इवामरावत्या नगरान्निर्जगाम निर्गत्य च समवसरणमभिगम्य यथाविधि भगवन्तं भव्यजननलिनवनविबोधनाभिनवभानुमन्तं महावीरंवन्दित्वोपविवेश, अवगतदशार्णभद्रभूपाभिप्रायं चतन्मानविनोदनोद्यतं कृताष्टमुखे प्रतिमुखं विहिताष्टदन्ते प्रतिदन्तं कृताष्टपुष्करिणीके प्रतिपुष्करिणि निरूपिताष्टपुष्करे प्रतिपुष्करं विरचिताष्टदले प्रतिदलं विरचितद्वात्रिंशद्बद्धनाटके वारणेन्द्रे समारूढं स्वश्रिया निखिलं गगनमण्डलमारपूरयन्तममरपतिमवलोक्य कुतोऽस्माध्शामीध्शी विभूतिः कृतोऽनेन निरवद्यो धर्म इति ततोऽहमपि तं करोमीति विभाव्य प्रवव्राज, जितोऽहमधुना त्वयेति भणित्वा यमिन्द्रः प्रणिपपातेति सोऽयं दशार्णभद्रः सम्भाव्यते परमनुत्तरोपपातिकाङ्गे नाधीतः क्वचित्सिद्धश्च श्रूयत इति, तथा अतिमुक्तः एवं श्रूयते अन्तकृद्दशाङ्गे पोलासपुरे नगरे विजयस्य राज्ञः श्रीनाम्यादेव्या अतिमुक्तको नाम पुत्रः षड्वार्षिको गौतमं गोचरगतं दृष्ट्वाएवमवादीत् के यूयं किं वा अटथ ?, ततो गौतमोऽवादीत् श्रमणा वयं भिक्षार्थं च पर्यटामः, तर्हि भदन्तागच्छत तुभ्यं भिक्षां दापयामीति भणित्वा अङ्गुल्या भगवन्तं गृहीत्वा स्वगृहमानैषीत्, ततः श्रीदेवी हृष्टा भगवन्तं प्रतिलम्भयामास, अतिमुक्तकः पुनरवोचत्यूयं क्व वसथ ?, भगवानुवाच-भद्र ! मम धर्माचार्याः श्रीवर्द्धमानस्वामिन उद्याने वसंति तत्र वयं परिवसामः, भदन्त ! आगच्छाम्यहं भवद्भिः सार्द्ध भगवतो महावीरस्य पादानू वन्दितुं ?, गौतमोऽवादीत् यथासुखं देवानां प्रिय !, ततो गौतमेन सहागत्यातिमुक्तकः कुमारो भगवन्तं वन्दते, धर्म्म श्रुत्वा प्रतिबुद्धो गृहमागत्य पितरावब्रवीत्-यथा संसारान्निर्व्विण्णोऽहं प्रव्रजामीत्यनुजानीतं मां युवां तावूचतुः - बाल ! त्वं कि जानासि ?, ततोऽतिमुक्तकोऽवादीत्- हे अम्बतात यदेवाहं जानामि तदेव न जानामि, यदेव न जानामि तदेव जानामि, ततस्तौ तमवादिष्टांकथमेतत् ? सोऽब्रवीत् - अम्बतात ! जानाम्यहं यदुत जातेनावश्यं मर्त्तव्यं, न जानामि तु कदा वा कस्मिन् वा कथं वा कियच्चिराद्वा ?, तथा न जानामि कैः कर्म्मभिर्निरयादिषु जीवा उत्पद्यन्ते एतत्पुनर्जानामि यथा स्वयंकृतैः कर्म्मभिरिति, तदेवं मातापितरौ प्रतिबोध्य प्रवव्राज तपः कृत्वा च सिद्ध इति इह त्वयमनुत्तरोपपातिकेषु दशमाध्ययनतयोक्तस्तदपर एवायं भविष्यतीति, 'दस आहिय'त्ति दशाध्ययनान्याख्यातानीत्यर्थः । " • Jain Education International ५५७ मू. (९७५) आयारदसाणं दस अज्झयणा पं० तं०-वीसं असमाहिट्ठाणा १ एगवीसं सबला २ तेत्तीसं आसायणातो ३ अट्ठविहा गणिसंपया ४ दस चिंतसमाहिट्ठाणा ५ एगारस उवासगपडिमातो ६ बारस मिक्खुपडिमातो ७ पज्जोवसणा कप्पो ८ तीसं मोहणिजट्टाणा ९ आजाइट्ठाणं १०-६ । पण्हावागरणदसाणं दस अज्झयणा पं० तं०-उवमा १ संखा २ इसिभासियाई ३ For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy