________________
५५०
स्थानाङ्ग सूत्रम् १०/-/९६३
तथाऽऽज्ञा-सर्वज्ञवचनात्मिका तया रुचिर्यस्यत स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिरिति भावः, भणितं च
|| 9 11
"रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणा तो सो खलु आणारुई होई ॥” इति,
'सुत्तबीयरुईमेव' त्ति इहापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धात् सूत्रेण-आगमेन रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तैनैवाङ्गप्रविष्टादिना सम्यकत्वं लभते गोविन्दवाचकवत् स सूत्ररुचिरिति भावः, अभिहितं च
119 11
"जो सुत्तमहिज्जंतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्वो ।" इति
तथा बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः, यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीजरुचिरिति भावः, गदितं च
11:9 11
“एगपएणेगाई पयाइं जो पसरई उ सम्मत्ते ।
उदव्व तिल्ल बिंदू सो बीयरुइत्ति नायव्वो ।” इति
'एवे 'ति समुच्चये, तथा 'अभिगमवित्थाररुइ' त्ति इहापि प्रत्येकं रुचिशब्दः सम्बन्धनीयः, तत्राभिगमो-ज्ञानं ततो रुचिर्यस्य सोऽभिगमरुचिः, येन ह्याचारादिकं श्रुतमर्थतोऽधिगतं भवति सोऽभिगमरुचिः, अभिगमपूर्वकत्वात्तद्वचेरिति भावः, गाथाऽत्र
119 11 “सो होइ अभिगमरुई सुअनाणं जस्स अत्थओ दिट्टं ।
एक्कारस अंगाई पइन्नयं दिट्ठिवाओ य ॥” इति
तथा विस्तारो - व्यासस्तो रुचिर्यस्य स तथेति, येन हि धर्मास्तिकायादिद्रव्याणा सर्वपर्यायाः सर्वैर्नयप्रमाणैर्ज्ञाता भवन्ति स विस्ताररुचिः, ज्ञानानुसारिरुचित्वादिति, न्यगादि च“दव्वाण सव्वभावा सव्वपमाणेहिं जस्स उवलद्धा । सव्वहिं नयविहीहिं वित्थरारुई मुणेयव्वो ॥” इति
॥१॥
तथा क्रिया- अनुष्ठानं रुचिशब्दयोगात् तत्र रुचिर्यस्य स क्रियारुचिः, इदमुक्तं भवतिदर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीति स क्रियारुचिरिति, उक्तं च
119 11
भावः, आह च
119 11
जो किरियाभावरुई सो खलु किरियारुई होइ ।।" इति
तथा सङ्क्षेपः-सङ्ग्रहस्तत्र रुचिरस्येति सङ्क्षेपरुचिः, यो ह्यप्रतिपन्नकपिलादिदर्शनो जिनप्रवचनानाभिज्ञश्च सङ्क्षेपेणैव चिलातिपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्क्षेपरुचिरिति
"
“ नाणेणं दंसणेण य तवे चरिते य समिइगुत्तीसु ।
“अनभिग्गहियकुदिट्ठि संखेवरुइत्ति होइ नायव्वो ।
अविसारओ पवयणे अनभिग्गहिओ य सेसेसु ॥” इति
तथा धर्मे श्रुतादौ रुचिर्यस्य स तथा, यो हि धर्मास्तिकायं श्रुतधर्म्म चारित्रधर्म्मच जिनोक्तं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International