________________
५४९
स्थानं-१०,आख्यापयति सामान्यविशेषरूपतः प्रज्ञापयति सामान्यतः प्ररूपयतिप्रतिसूत्रमर्थकनेन दर्शयति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन, इयं क्रियेभिरैरुपात्ताइत्थं क्रियत इति भावना, निदंसेइ'त्ति कथञ्चिदगृह्णतः परानुकम्पया निश्चयेन पुनः पुनर्दर्शयति निदर्शयति ‘उवदंसेइ'त्ति सकलनयुक्तिभिरिति ३,
'चाउव्वण्णाइण्णे'त्ति चत्वारो वर्णाः-श्रमणादयः समाहृता इति चतुर्वर्णं तदेव चातुर्वण्यं तेनाकीर्णः-आकुलश्चातुर्वण्याकीर्णःअथवाचत्वारोवर्णाः-प्रकारायस्मिनेसतथा, दीर्घत्वंप्राकृत्वात्, चतुर्वर्णश्चासावाकीर्णश्च ज्ञानादिभिर्महागुणैरिति चतुर्वर्णासीर्णः, 'चउविहे देवे पनवेइ'त्ति वन्दनकुतूहलादिप्रयोजनेनागतान्प्रज्ञापयति-जीवाजीवादीन्पदार्थान्बोधयति-सम्यकत्वंग्राहयति शिष्यीकरोतीतियावत्, लोलेभ्यो वातान्प्रकाशयति, अनंते' इत्यादौ सूत्रेयावत्करणात् निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे'त्ति दृश्यमिति, “सदेवे'त्यादि, सह देवैः
वैमानिकज्योतिष्कैर्मनुजैः-नरैरसुरैश्च-भवनपतिव्यन्तरैश्च वर्ततइति सदेवमनुजासुरस्तत्रलोकेत्रिलोकरूपे 'उराल'त्ति प्रधानाकीर्तिः-सर्वदिग्व्यापी साधुवादः वर्ण:
एकदिग्व्यापी शब्द:-अर्द्धदिग्व्यापी श्लोकः-तत्तत्स्थान एव श्लाधा एषां द्वन्द्वः तत एते 'परिगुव्वंति' परिगुप्यन्ति व्याकुलीभयन्तिसततंभ्रमन्तीत्यर्थः,अथवा परिगूयन्ते-गूङ्घातोःशब्दार्थत्वात् संशब्द्यते इत्यर्थः, पाठानन्तरतः परिभ्राम्यन्ति, कथमित्याह-'इति खल्वि'त्यादि, इतिःएवंप्रकारार्थः खलुक्यिालङ्कारेततश्चैवंप्रकारो भगवान् सर्वज्ञानी सर्वदर्शी सर्वसंशयव्यवच्छेदी सर्वेबोधकभाषाभाषी सर्वजगज्जीववत्सलः सर्वगुणिगणचक्रवर्ती सर्वनरनाकिनायकनिकायसेवितचरणयुग इत्यर्थः, 'महावीर' इति नाम, एतदेवावत्यतेश्लाघाकारिणामादरख्यापनार्थमनेकत्वख्यापनार्थं चेति, ‘आघवेई' त्यादि पूर्ववत्।
स्वप्नदर्शनकाले भगवान् सरागसम्यग्दर्शनीति सरागसम्यग्दर्शनं निरूपयन्नाह
मू. (९६२) दसविधे सरागसम्मइंसणे पन्नत्ते, (तं०)मू. (९६३) निसगु १ वतेसरुई २ आणरुता ३ सुत्त ४ बीतरुतिमेव ५।।
अभिगम ६ वित्थाररूती ७ किरिया ८ संखेव ९ धम्मरुती १०॥ वृ. 'दसविहे'त्यादि, सरागस्य-अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं-तत्त्वार्थश्रद्धानं तत्तथा, अथवा सरागंचतत्सम्यग्दर्शनं चेति विग्रहः सरागंसम्यग्दर्शनमस्येतिवेति, निसग्ग'गाहा, रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः-स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति निसर्गरुचिनिसर्गतोवारुचिरिति निसर्गरुचिः,योहिजातिस्मरणप्रतिभादिरूपयास्वमत्याऽवगतान् सद्भूतान् जीवादीन् पदार्थान् श्रद्दधाति स निसर्गरुचिरिति भावः, यदाह॥१॥ “जो जिणदिढे भावे चउब्बिहे सद्दहाइ सयमेव ।
एमेव नन्नहत्ति य निसग्गरुइत्ति नायव्वो।" इति तथोपदेशोगुदिना कथनं तेन रुचिर्यस्येत्युपदेशरुचिः तत्पुरुषपक्षः स्यवमूह्यः सर्वत्रेति, योहि जिनोक्तानेवजीवादीनान्तीर्थकरशिष्यादिनोपदिष्टान् श्रद्धत्तेस उपदेशरुचिरिति भावः, यत आह॥१॥
“एए चेव उ भावे उवइढे जो परेण सद्दहइ। छउमत्थेण जिणेण व उवएसरुई मुणेयव्वो ॥” इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org