________________
स्थानं-१०,
५३९
शेषदोषविषये विशेषो-भेदः, स चानेकविधः स्वयमूह्यः ३, ‘एगट्ठिए य'त्ति एकश्चसावर्थश्चअभिधेयः एकार्थःसयस्यास्तिस एकार्थिकः एकार्थवाचक इत्यर्थः, इतिः-उपप्रदर्शनेचः समुच्चये, सच शब्दसामान्यापेक्षयैकार्थिको नाम शब्दविशेषो भवति, यथा घट इति, तथा अनेकार्थको यथा गौः, यथोक्तं- 'दिशि १६शि २ वाचि ३ जले ४ भुवि ५ दिवि ६ वजे ७ऽशौ ८ पशौ ९ च गोशब्दः" इति,
इहैकार्थिकाविशेषग्रहणेनानेकर्थिकोऽपि गृहीतस्तद्विपरीतत्वात्, न चेहासौ गण्यते, दशस्थानकानुरोधात्, अथवा कथञ्चिदेकार्थिक शब्दग्रामे य कथञ्चिद्भेदः स विशेषः स्यादिति प्रक्रमः,
___ 'इय'त्ति पूरणे, यथाशक्रः पुरन्दर इत्यत्रैकार्थे शब्दद्वयेशकनकाल एवशक्रः पूर्दारणकाल एव पुरन्दरः एवंभूतनयादेशादिति, अथवा दोषशब्द इहापि सम्बद्धयते, ततश्च न्यायोद्ग्रहणे शब्दान्तरापेक्षया विशेष इति४, तथा कार्यकारणात्मके वस्तुसमूहे कारणमिति विशेषः,कार्यमपि विशेषो भवति, नचेहोक्तो, दशस्थानकानुवृत्तेः अथवा कारणे-कारणविषये विशेषो-भेदो यथा परिणामिकारणंमृत्पिण्डः, अपेक्षाकारणं दिग्देशकालाकाशपुरुषचक्रादि, अथवोपादानकारणंमृदादि निमित्तकारणं-कुलालादि सहकारिकारणं-चक्रचीवरादीत्यनेकधा कारणं,
___ अथवा दोषशब्दसम्बन्धात् पूर्वव्याख्यातः कारणदोषो दोषसामान्यापेक्षया विशेष इति चः समुच्चये, तथा प्रत्युत्पन्नोवार्त्तमानिकः अभूतपूर्व इत्यर्थः दोषः-गुणेतरः, स चातीतादिदोषसामान्यापेक्षया विशेषः ५, अथवा प्रत्युत्पन्ने-सर्वथा वस्तुन्यभ्युपगतेविशेषोयोदोषोऽकृताभ्यागमकृतविप्रणाशादिः सदोषसामान्यपेक्षया विशेष इति ६, तथा नित्योयोदोषोऽभव्यानां मिथ्यात्वादिरनाद्यपर्यवसितत्वात् स दोषसामान्यपेक्षया विशेषोऽथवा सर्वथा नित्ये वस्तुन्यभ्युपगते यो दोषो बालकुमाराद्यवस्थाऽभावापत्तिलक्षणः स दोषसामान्यापेक्षया दोषविशेष इति ७, तथा 'हिअहमे'त्ति अकारप्रश्लेषादधिक-वादकाले यत्परप्रत्यायनं प्रत्यतिरिक्तं दृष्टान्तनिगमनादि तद्दोषः, ' तदन्तरेणैव प्रतिपाद्यप्रतीतेस्तदभिधानस्यानर्थकत्वादिति, आह च॥१॥ “जिणवयणं सिद्धं चेव भन्नए कत्थई उदाहरणं ।
__ आसज्ज उ सोयारं हेऊवि किहिंचि भन्नेज्जा । तथा-कत्थइ पंचावयवं दसहा वा सव्वहा न पडिकुटुं ।" इति,
ततश्चाधिकदोषो दोषविशेषत्वाद्विशेष इति, अथवाऽधिके दृष्टान्तादौ सति यो दोषो- . दूषणंवादिनःसोऽपिदोषविशेष एव, अयंचाष्टम आदितो गण्यमानइति ८, 'अत्तण'त्तिआत्मना कृतमिति शेषः, तथा उपनीतं-प्रापितं परेणेति शेषः, वस्तुसामान्यापेक्षयाऽऽत्मकृतंच विशेषः, परोपनीतंचापरो विशेष इति भावः ९, चकारयोर्विशेषशब्दस्यच प्रयोगो भावनावाक्ये दर्शितः, अथवा दोषशब्दानुवृत्तेरात्मना कृतो दोष परोपनीतश्च दोष इति,
__ दोषसामान्यापेक्षया विशेषावेतौ इति, एवं ते विशेषा दश भवन्तीति, इहादर्शपुस्तकेषु 'निज्जेऽहिअट्ठमे'त्ति दृष्टं, नच तथाऽष्टौ पूर्यन्त इति, निच्चे इति व्याख्यातं, इहोक्तरूप विशेषादयो भावा अनुयोगगम्याः, अनुयोगश्चार्थतो वचनतश्च, तत्रार्थतो यथा - “अहिंसा संजमो तवो" इत्यत्राहिंसादीनां स्वरूपभेदप्रतिपादनं, वचनानुयोगस्त्वेषामेव शब्दाश्रितो विचार इति तदिह Jain Education International
For Private & Personal Use Only
www.jainelibrary.org