SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५३८ स्थानाङ्ग सूत्रम् १०/-/९४७ त्वस्वलक्षणमिति, इदं स्वलक्षणलक्षणं, इदंचेन्द्रियप्रत्यक्षमेवाश्रित्य स्यात्न योगिज्ञानं, योगिज्ञाने हिन सन्निधानासन्निधानाभ्यां प्रतिभासभेदोऽस्तीत्यतस्तदपेक्षया न किञ्चिस्वलक्षणं स्यादिति, अतिव्याप्तिर्यथा अर्थोपलब्धिहेतुः प्रमाणमिति प्रमाणलक्षणं, इह चार्थोपलब्धिहेतुभूतानां चक्षुर्दध्योदनभोजनादीनामानन्त्येनप्रमाणेयत्तानस्यात्, अथवा दार्शन्तिकोऽर्थो लक्ष्यतेऽनेनेति लक्षणं-दृष्टान्तस्तद्दोषः-साध्यविकलत्वादिः, तत्रसाध्यविकलतायथा नित्यः शब्दोमूतत्वाद्घटवद्, इह घटे नित्यत्वं नास्तीति कारणदोषः साध्यं प्रति तद्-व्यभिचारो यथा अपौरुषेयो वेदो वेदकारणस्याश्रूयमाणत्वादिति, अश्रूयमाणत्वं हि कारणान्तरादपि सम्भवतीति हेतुदोषोऽसिद्धविरुद्धानैकान्तिकत्वलक्षणः, तत्रासिद्धो यथाऽनित्यः शब्दश्चाक्षुषत्वाद् घटवदिति, अत्र हि चाक्षुष्त्वं शब्देन सिद्धं, विरुद्धोयथा नित्यः शब्दः कृतकत्वात्घटवद्, इह घटेकृतकत्वं नित्यत्विरुद्धमनित्यत्वमेव साधयतीति, अनैकान्तिकोयथा नित्यः शब्दः प्रमेयत्वादाकाशवद्, इह हि प्रमेयत्वमनित्येष्वपि वर्त्तते, ततः संशय एवेति ७ तथा सङ्क्रमणं-प्रस्तुतप्रमेयेऽप्रस्तुतप्रमेयस्य प्रवेशनं प्रमेयान्तरगमनमित्यर्थः अथवाप्रतिवादिमतेआत्मनः सङ्क्रामणंपरमताभ्यनुज्ञानमित्यर्थः तदेव दोष इति ८, तथा निग्रहः-छलादिना पराजयस्थानं स एव दोषो निग्रहदोष इति, तथा वसतःसाध्यधर्मसाधनधावत्रेति वस्तु-प्रकरणात्पक्षस्तस्यदोषः-प्रत्यक्षनिराकृतत्वादिः, यथाअश्रावणः शब्दः, शब्दे ह्यश्रावणत्वं प्रत्यक्षनिराकृमिति । मू. (९४८) दसविधे विसेसे पं० (तं०) वृ. एतेषामेव तज्जातादिदोषाणां सामान्यतोऽभिहितानां तदन्येषां चार्थानां सामान्यविशेषरूपाणां सतां विशेषाभिधानायाह - ‘दसे' त्यादि, विशेषो भेदो व्यक्तिरित्यनर्थान्तरं। . मू. (९४९) वत्थु १ तजातदोसे २ त, दोसे एगहितैति ३ त। कारणे ४ त पडुप्पण्णे ५, दोसे ६ निव्वे ७ हिअट्ठमे ८॥ __अत्तणा ९ उवनीते १० त, विसेसेति त, ते दस ॥ वृ. 'वत्थु' इत्यादिः सार्द्ध श्लोकः, वस्तित्वतिप्राक्तनसूत्रस्यान्तोक्तोयः पक्षः, 'तज्जात'मिति तस्यैवादावुक्तं प्रतिवाद्यादेर्जात्यादि तद्विषयो दोषो वस्तुतज्जातदोषः, तत्र वस्तुदोषः-पक्षदोषस्तजातदोषश्च-जात्यादिहीलनमेतौचविशेषौ दोषसामान्यपेक्षया, अथवा वस्तुदोषे-वस्तुदोषविषये विशेषो-भेदःप्रत्यक्षनिराकृतत्वादिः, तत्र प्रत्यक्षनिराकृतोयथाअश्रावणः शब्दः, अनुमाननिराकृतो यथा नित्यः शब्दः, प्रतीतिनिराकृतो यथा अचन्द्रः शशी, स्ववचननिराकृतो यथा यदहं वच्मि तन्मिथ्येति, लोकरूढनिराकृतो यथा शुचि नरशिरः-कपालमिति, तज्जातदोषविषयेऽपि भेदो जन्ममर्मकर्मादिभिः, जन्मदोषो यथा - ॥१॥ “कच्छुल्लयाए घोडीए जाओ जो गद्दहेण छूढेण । तस्स महायणमझे आयारा पायडा होति ।।" इत्यादिरनेकविधः २, चकारः समुच्चये, तथा 'दोसे'त्ति पूर्वोक्तसूत्रे ये शेषा मतिभङ्गादयोऽष्टावुक्तास्ते दोषा दोषशब्देनेह सङ्ग्रहीताः, ते च दोषसामान्यापेक्षया विशेषा भवन्त्येवेति दोषो-विशेषः, अथवा 'दोसे'त्ति दोषेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy