SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ स्थान - १०, - ५३१ पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिध्यात्वनिरूपणाय सूत्रम् मू. (९२९) दसविधे मिच्छत्ते पं० तं० - अधम्मे धम्मसन्ना धम्मे अधम्मसन्ना अमग्गे मग्गसन्ना मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसन्ना अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसन्ना । वृ. तत्र अधर्मे श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्म्मसंज्ञा - आगमबुद्धिर्मिथ्यात्वं, विपर्यस्तत्वादिति १ धर्मे-कषच्छेदादिशुद्धे सम्यक्श्रुते आप्तवचनलक्षणेऽधर्म्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽ सर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्पमाणतोऽ नाप्तस्तदभावात्तत्तदुपदिष्टं शास्त्रं धर्म्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति २ तथा उन्मार्गोनिर्वृतिपुरीं प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानानानुष्ठानरूपस्तत्र मार्गसंज्ञा- कुवासनातो मार्गबुद्धिः ३ तथा मार्गेऽमार्गसंज्ञेति प्रतीतं ४ तथा अजीवेषु - आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद' मित्याद्यभ्युपगमादिति तथा - ‘क्षितिजलपवनहुताशनयजमानाकाशचन्द्रसूर्याख्याः । इति मूर्त्तयचो महेश्वरसम्बधिन्यो भवन्त्यष्टौ ॥” इति ५, तथा जीवेषु पृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छ्वासादीनां 'प्राणिधर्म्माणामनुपलम्भाद् घटवदिति ६ तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्यब्रह्मचारिषु साधुसंज्ञा, यथासाधव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादिविकल्परूपेति ७ तथा साधुषु-ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात्स्नानादिविरहितत्वाद्वेत्यादविकल्पात्मिकेति ८ तथाऽमुक्तेषुसकर्म्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा 119 11 “अणिमाद्यष्टविधं प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् ॥” इत्यादिविकल्पात्मिकेति ९ तथा मुक्तेषु सकलकर्म्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवध्शा मुक्ताः, अनादिकर्म्मयोगस्य निवर्त्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादिविकल्परूपेति १० । मू. (९३०) चंदप्पभेणं अरहा दस पुव्वसतसहस्साई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, धम्मेणमरहा दस वाससयसहस्साइं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, नमी णमरहा दस वाससहस्साइं सव्वाउयं पालइत्ता सिद्धे जाव पहीणे, पुरिससीहे णं वासुदेवे दस वाससयसहस्साई सव्वाउयं पालइत्ता छट्टीते तमाए पुढवीए नेरतित्ताते उववन्ने, नेमी णं अरहा दस धणूई उड्डुं उच्चत्तेणं दस य वाससयाइउं सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, कण्हे णं वासुदेवे दस धणूइं उद्धं उच्चत्तेणं दस य वाससयाइं सव्वाउयं पालइत्ता तच्चाते वालुयप्पभाते पुढवीते नेरतियत्ताते उववन्ने । वृ. अनन्तरं मिथ्यात्वविषयतया मुक्ता उक्ताः, इदानीं तदधिकारात्तीर्थकरत्रयस्य दशस्थानकानुपातेन मुक्तत्वमभिधीयते -'चंदप्पभे णं' इत्यादि सूत्रत्रयमपि कण्ठ्यं, नवरं सिद्धे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy