________________
५२९
स्थानं - १०, -
चतुर्विधासु तत्र द्रव्यतः प्रासुकद्रव्यं दुर्लभं क्षेत्रतोऽध्वप्रतिपन्नता कालतो दुर्भिक्षं भावतो ग्लानत्वमिति, उक्तं च-‘“दव्वाइअंलभे पुण चउव्विहा आवया होइ" इति तथा शङ्किते एष णेऽप्यनेषणीयतया "जं संके तं समावज्जे " इति वचनात्, सहसाकारे - अकस्मात्करणे सति, सहसाकारलक्षणं चेदम्119 11
“पुव्वं अपासिऊणं पाए छूढंमि जं पुणो पासे । न चएइ नियत्तेउं पायं सहसाकरणमेयं ॥” इति
भयं च-भीतिः नृपचौरादिम्य: प्रद्वेषश्च मात्सर्यं भयप्रद्वेषं तस्माच्च प्रतिषेवा भवति, यथा राजाद्यभियोगान्मार्गादिदर्शयति सिंहादिभयाद्वा वृक्षमारोहति, उक्तं च- 'भयमभिउग्गेण सीहमाइ वत्ति" इह प्रद्वेषग्रहणेन कषाया विवक्षिताः, आह च- 'कोहाईओ पओसो "त्ति तथा विमर्श:शिक्षकादिपरीक्षा, आह च-"वीमंसा सेहमाईणं” इति ततोऽपि प्रतिषेवा-पृथिव्यादिसङ्घट्टादिरूपा भवतीति ।
मू. (९२६) दस आलोयणादोसा पं० (तं० )
वृ. प्रतिषेवायां चालोचना विधेया, तत्र ये दोषास्ते परिहार्यां इति दर्शनायाहमू. (९२७) आकंपइत्ता १ अनुमानइत्ता २ जंदिट्टं ३ बायरं ४ च सुहुमं वा ५ । छण्णं ६ सद्दाउलगं ७ बहुजण ८ अव्वत्तं ९ तस्सेवी १० ॥ वृ. ‘दसे’त्यादि, ‘आकंप’गाहा, आकम्प्य आवर्ज्येत्यर्थः, यदुक्तम्॥१॥ “वेयावच्चाईहिं पुव्वं आगंपइत्तु आयरिए ।
आलोइ कहं मे थोवं वियरिज्ज पच्छित्तं ? ॥” इति
'अनुमानइत्ता' अनुमानं कृत्वा, किमयं मृदुदण्ड उतोग्रदण्ड इति ज्ञात्वेत्यर्थः, अयमभिप्रायोऽस्य-यद्ययं मृदुदण्डस्ततो दास्याम्यालोचनामन्यथा नेति, उक्तं च
119 11
“किं एस उग्गदंडो मिउदंडो वत्ति एवमनुमाने ।
अन्ने पलिंति थोवं पच्छित्तं मज्झ देहिज्जा ।" इति
'जं दिट्ठ'ति यदेव दृष्टमाचार्यादिना दोषजातं तदेवालोचयति नान्यं दोषं, आचार्यरञ्जनमात्रपरत्वेनासंविग्नत्वादस्येति, उक्तं च
-
" दिट्ठा व जे परेणं दोसा वियडेइ ते च्चिय न अन्ने ।
119 11
सोहिया जाणतुं त एसो एयावदोसो उ ॥” इति,
'बायरं व'त्ति बादरमेवातिचारजातमालोचयति न सूक्ष्ममिति, 'सुहुमं व'त्ति सूक्ष्ममेव वाऽतिचारमालोचयति यः किल सूक्ष्ममालोचयति स कथं बादरं सन्तं नालोचयत्येवंरूपभावसम्पादनायाचार्यस्येति, आह च
119 11
“बायर वड्डवराहे जो आलोएइ सुहुम नालोए । अहवा सुहुमा लोए वरमन्नंतो उ एवं तु ॥ जो हु आलो सो कह नालोय बायरे दोसे ?" ति
'छन्नं'ति प्रच्छन्नमालोचयति यथाऽऽत्मनैव श्रृणोति नाचार्यः, भणितंच -“छन्नं तह आलोए जह नवरं अप्पणा सुणइ ॥” इति,
334
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org