________________
५२४
स्थानाङ्ग सूत्रम् १०/-१९१४
मू. (९१४) जंबुद्दीवे२ दस खेत्तापं०२०-भरहे एरवते हेमवतेहेरन्नवते हरिवस्सेरम्मगवस्से पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा ।
मू. (९१५) माणुसुत्तरेणं पव्वते मूले दस बावीसे जोयणसते विक्खंभेण पं० । वृ. मानुषोत्तरश्चक्रवालपर्वतः प्रतीतः।
मू. (९१६) सब्वेविणंअंजनगपव्वतादसजोयणसयाइमुव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिंदसजोयणसताइविक्खंभेण पन्न०, सव्वेविणंदहिमुहपव्वता दसजोयणसताई उव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता दस जोयणसहस्साइं विक्खंभेणं पं०, सव्वेवि णं रतिकरगपब्बता दसजोयणसताइंउद्धं उच्चत्तेणंदसगाउयसताइंउब्वेहेणंसव्वत्थसमाझल्लरिसंठिता दस जोयणसहस्साई विक्खंभेणं पं० ।
वृ.अञ्जनकाश्चत्वारो नन्दीश्वरद्वीपवर्तिनः, दधिमुखाः प्रत्येकमञ्जनकानां दिक्वतुष्टयव्यवस्थितपुष्करिणीमध्यवर्तिनः षोडशेति, रतिकरा नन्दीश्वरद्वीपे विदिग्व्यवस्थिताः चत्वारश्चतुःस्थानकाभिहितस्वरूपाः ।
मू. (९१७) रुयगवरे णं पव्वते दस जोयणसयाई उव्वेहेणं मूले दस जोयणसहस्साई विक्खंभेणं उवरिंदस जोयणसताइविक्खंभेणं पं०। एवं कुंडलवरेवि।
वृ. रूचको-रूचकाभिधानस्त्रयोदशद्वीपवर्ती चक्रवालपर्वतः । कुण्डलः-कुण्डलाभिधान एकादशद्वीपवर्तीचक्रवालपर्वतएव, एवं कुण्डलवरेऽवी त्यनेनेह कुण्डलवरउद्वेधमूलविष्कम्भोपरिविष्कम्भै रचकवरपर्वतसमान उक्तो, द्वीपसागरप्रज्ञत्यां त्वेवमुक्तः॥१॥ “दस चेव जोयणसए बावीसे वित्थडो उ मूलंमि।
. चत्तारिजोयणसए चउवीसे वित्थडो सिहरि ॥” इति रुचकस्यापि, तत्रायविशेष उक्तः-मूलविष्कम्भोदशसहाम्राणि द्वाविंशत्यधिकानिशिखरे तुचत्वारि सहस्राणि चतुर्विंशत्यधिकानीति।
अनन्तरं गणितानुयोग उक्तः, अथ द्रव्यानुयोगस्वरूपं भेदत आह
मू. (९१८) दसविहे दवियाणुओगे पं० २०-दवियानुओगे १ माउयानुओगे २ एगट्टियानुओगे ३ करणानुओगे ४ अप्पितनप्पिते ५ भाविताभाविते ६ बाहिराबहिरे ७ सासयासासते ८ तहनाणे ९ अतहनाणे १०।
वृ. 'दसविहे दविए'त्यादि, अनुयोजन-सूत्रस्यार्थेन सम्बन्धनं अनुरूपोऽनुकूलो वा योगःसूत्रस्याभिधेयार्थं प्रतिव्यापारोऽनुयोगः, व्याख्यानमिति भावः, स च चतुर्द्धा व्याख्येयभेदात्, तद्यथा-चरणकरणानुयोगो धर्मकथानुयोगो गणितानुयोगो द्रव्यानुयोगश्च,
तत्र द्रव्यस्य-जीवादेरनुयोगो-विचारो द्रव्यानुयोगः, सच दशधा, तत्र 'दवियानुओगे'त्ति यजीवादेव्यत्वं विचार्यतेस द्रव्यानुयोगो, यथा द्रवति-गच्छतितांस्तान् पर्यायान् द्रूयते वातैस्तैः पर्यायैरिति द्रव्यं-गुणपर्यायवानर्थः, तत्र सन्ति जीवे ज्ञानादयः सहभावित्वलक्षणा गुणाः न हि तद्वियुक्तो जीवः कदाचनापि सम्भवति, जीवत्वहानेः, तथा पर्याया अपि मानुषत्वबाल्यादयः कालकृतावस्थालक्षणास्तत्र सन्त्येवेति, अतो भवत्यसौ गुणपर्यायवत्त्वात् द्रव्यमित्यादि द्रव्यानुयोगः१,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org