SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ स्थानं - ९, - 119 11 “उद्देसिय साहुमाई ओमव्वय भिक्खवियरणं जं च । उद्धरियं मीसेउं तविउं उद्देसियं तं तु ॥” इति 'मीसजाए व 'त्ति गृहिसंयतार्थमुपस्कृततया मिश्रं जातं - उत्पन्नं मिश्रजातं, यदाह“पढमं चिय गिहिसंजय मीसं उवक्खडइ मीसगं तं तु ॥” इति'अज्झोयरए' त्ति स्वार्थमूलाग्रहणे साध्वाद्यर्थं कणप्रक्षेपणमध्यवपूरकः, आह च" सट्टा मूलद्दहणे अज्झोयर होइ पक्खेवो ॥” इति'पूईए' त्ति शुद्धमपि कर्माद्यवयवैरपवित्री कृतं पूतिकं, उक्तं च“कम्मावयवसमेयं संभाविज्जइ जयं तु तं पूई ॥” इति - 'कीए' त्ति द्रव्येण भावेन वा क्रीतं स्वीकृतं यत्तत्क्रीतमिति, यतोऽभ्यधायि“दव्वाइएहिं किणणं साहूणट्ठाइ कीयं तु ॥” इति‘पामिच्चं' अपमित्यकं-साध्वर्थमुद्धारगृहीतं, यतोऽभिहितम्“पामिच्चं साहूणं अट्ठा उच्छिदिउं दियावेइ” इति'आच्छेद्यं' बलाद् भृत्यादिसत्कमाच्छिद्य यत्सावमी साधवे ददाति, भणितं च“अच्छेज्जं चाछिंदिय जं सामी भिच्चमाईणं" इति - 'अनिसृष्टं' साधारणं बहूनामेकादिना अननुज्ञातं दीयमानं, आह च"अणिसट्टं सामन्नं गोट्ठियमाईण दयउ एगस्स" इति 'अभ्याहृतं' स्वग्रामादिभ्य आहृत्य यद्ददाति, यतोऽवाचि"सग्गमपरग्गामा जमाणियं अभिहडं तयं होइ" इति एषां शब्दार्थः प्रायः प्रकट एवेति, कान्तारभक्तादय आधाकर्मामदिभेदा एव, तत्र कान्तारंअटवी तत्र भक्तं- भोजनं यत्साध्वाद्यर्थं तत्तथा, एवं शेषाण्यपि, नवरं ग्लानो- रोगोपशान्तये यद्ददाति ग्लानेभ्यो वा यद् दीयते, तथा वद्दलिकामेघाडम्बरं तत्र हि वृष्टया भिक्षाभ्रमणाक्षमो भिक्षुकलोको भवतीति गृही तदर्थं विशेषतो भक्तं दानाय निरूपयतीति, प्रारधूर्णकाः-आगन्तुकाः भिक्षुका एव तदर्थं यद्भक्तं तत्तथा, प्राधूर्णको वा गृही स यद्दापयति तदर्थं संस्कृत्य तत्तथा, मूलं पुनर्नवादीनां तस्य भोजनं तदेव वा भोजनं भुज्यत इति भोजनमितिकृत्वा, कन्दः - सूरणादिः फलं त्रपुष्यादि बीजं दाडिमादीनां हरितं मधुरतृणादिविशेषः, जीववधनिमित्तत्वाच्चैषां प्रतिषेध इति । 'पंचमहव्वइए' इत्यादि प्रथमपश्चिमतीर्थकराणां हि पञ्च महाव्रतानि शेषाणां महाविदेहजानां च चत्वारीति पञ्चमहाव्रतिकः, एवं सह प्रतिक्रमणेन उभयसन्ध्यमावश्यनकेन यः स तथा, अन्येषां तु कारणजात एव प्रतिक्रमणमिति, उक्तं च 119 11 “सपडिक्कमणो धम्मो पुरिमस्स य पच्छि मस्स य जिनस्स । मज्झिमाण जिणाणं कारणजाए पडिक्कमणं ॥” इति, ५०९ . Jain Education International तथा अविद्यमानानि - जिनकल्पिकविशेषापेक्षया असत्त्वादेव स्थविरकल्पिकापेक्षया तु जीर्णमलिनखण्डितश्वेताल्पत्वादिना चेलानि-वस्त्राणि यस्मिन् स तथा धर्म्मः चारित्रं, न च सति चेले अचेलता न लोके प्रतीता, यत उक्तम् 119 11 “जह जलमवगाहंतो बहुचेलोऽवि सिरवेढियकडिल्लो | For Private & Personal Use Only www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy