________________
स्थानं - ९,
४९७
'जाव गंधिलावइंमी' त्यत्र यावत्करणात् सुवप्रमहावप्रवप्रावतीकच्छावतीवल्गुसुवल्गुगंधिलेषु नव नव कूटानि प्रागिव दृश्यानीति । पुनः पक्ष्मादिविजयेषु षोडशस्वतिदिशति - 'एवं सव्वेसु' इत्यादिना, कूटानां सामान्यं लक्षणमुक्तमिति विशेषार्थिना तु जम्बूद्वीपप्रज्ञप्तिर्निरूपणीया, एवं नीलवत्लूटानि एरवतकूटानि च व्याख्येयानीति । इयं कूटवक्तव्यता तीर्थकरैरुक्तेति प्रकृतावतारिणी जिनवक्तव्य
तामाह
मू. (८६९) पासे णं अरहा पुरिसादानिए वज्ररिसहनारातसंघयणे समचउरंस- संठाणसंठिते नव रयणीओ उड्डुं उच्चत्तेणं हुत्था ।
वृ.
'पासे' त्यादि सूत्रद्वयं कण्ठ्यं ।
मू. (८७०) समणस्स णं भगवतो महावीरस्स तित्थंसि नवहिं जीवेहिं तित्थिगरनामगोत्ते कम्मे निव्वतिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अनगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते ९ ।
बृ. नवर 'तित्थगरनामे'ति तीर्थकरत्वनिबन्धनं नाम तीर्थकरनाम तच्च गोत्रं च कर्म्मविशेष एवेत्येकवद्भावात् तीर्थकरनामगोत्रमिति अथवा तीर्थकरनामेति गोत्रं - अभिधानं यस्य तत्तीर्थकरनामगोत्रमिति,
श्रेणिको राजा प्रसिद्धस्तेन १, एवं सुपार्श्वो भगवतो वर्द्धमानस्य पितृव्यः २, उदायी कोणिकपुत्रः, यः कोणिकेऽपक्रान्ते पाटलिपुत्रं नगरं न्यवीशित् यश्च स्वभवनस्य विवक्तदेशे पर्वदिनेष्वाहूय संविग्नगीतार्थसद्गुरूंस्तत्पर्युपासनापरायणः परमसंवेगरसप्रकर्षमनुसरन् सामायिक पौषधादिकं सुश्रमणोपासकप्रायोग्यमनुष्ठानमनुतिष्ठते एकदा च निशि देशनिर्द्धाटितरिपुराजपुत्रेण द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायः कर्त्तिकाकण्ठकर्त्तनेन विनाशित इति ३,
पोट्टिलोऽनगारोऽनुत्तरोपपातिकाङ्गेऽधीतो हस्तिनागपुरनिवासी भद्राभिधानसार्थवाहीतनयो द्वात्रिंशद्भार्यात्यागी महावीरशिष्यो मासिक्या संलेखनया सर्वार्थसिद्धोपपन्नः महाविदेहात्सिद्धिगामी, अयं त्विह भरतक्षेत्रात् सिद्धिगामी गदित इति ततोऽयमन्यः सम्भाव्यत इति ४, ढग्रप्रतीतः ५,
शङ्खशतकौ श्रावस्ती श्रावकौ, ययोरीध्शी वक्तव्यता- किल श्रावस्त्यां कोष्ठके चैत्ये भगवानेकदा विहरति स्म, शङ्खादिश्रमणोपासकाश्चागतं भगवन्तं विज्ञाय वन्दितुमागताः, ततो निवर्त्तमानांस्तान् शङ्खः खल्वाख्याति स्म यथ भो देवानांप्रिया ! विपुलमशनाद्युपस्कारयत ततस्तत्परिभुञ्जाना: पाक्षिकं पर्व्व कुर्वाणा विहरिष्यामः, ततस्ते तव्प्रतिपेदिरे, पुनः शङ्खोऽचिन्तयत्-न श्रेयो मेऽशनादि भुञ्जानस्य पाक्षिकपौषधं प्रतिजाग्रतो विहर्त्तु श्रेयस्तु मे पौषधशालायां पौषधिकस्य मुक्ताभरणशस्त्रादेः शान्तवेषस्य विहर्तु, अथ स्वगृहे गत्वा उत्पलाभिधानस्वभार्याया वार्तां निवेद्य पौषधशालायां पौषधमकार्षीत्, इतश्च तेऽशनाद्युपस्कारयांचक्रुः एकत्र च समवेयुः शङ्खं प्रतीक्षमाणास्तस्थुः, ततोऽनागच्छति शङ्खे पुष्कलीनामा श्रमणोपासकः शतक इत्यपरनाम शङ्खस्याकारणार्थं तद्गृहं जगाम गतस्य चोत्पला श्रावकोचितप्रतिपत्तिं चकार ततः पौषधशालायं स विवेश, ईर्यापथिकी प्रतिचक्राम,
1
3 32
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org