________________
स्थानाङ्ग सूत्रम् २/१/५६
(स्थान-२) वृ.व्याख्यातमेकस्थानकाख्यंप्रथममध्ययनं, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्यचायं विशेषसम्बन्धनः-इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति।
स्थान-२ उद्देशक-१:तानिच प्रथणाध्ययनवत्, द्रष्टव्यानियस्तु विशेषः सस्वबुध्ध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम् -
मू. (५७) जदत्थिणं लोगे तं सव्वं दुपओआरं, तंजहा-जीवच्चेव अजीवञ्चेव । तसे चेव थावरे चेव १, सजोणियच्चेव अजोणियचेवर, साउयच्चेव अणाउयच्चेव ३, सइंदियच्चेव, अणिदिए चेव ४ सवेयगा चेव अवेयगा चेव ५, सरूवि चेव अरूविचेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावनगा चेव असंसारसमावनगा चेव ८, सासया चेव असासया चेव ९,
वृ. अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वं ह्युक्तम् ‘एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपिपुद्गला भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति?, उच्यते, भवन्त्येव, यतो 'जदत्थी'त्यादि, परम्परसूत्रसम्बन्धस्तु-'श्रुतंमयाऽऽयुष्मताभगवतैवमाख्यातमेक आत्मे'त्यादि, तथेदमपरमाख्यातं 'जदत्थी' त्यादि, संहितादिचर्चःपूर्ववत्, 'यद्',जीवादिकंवस्तु 'अस्ति विद्यते, णमितिवाक्यालङ्कारे, क्वचित्पाठो जदत्थिं चणं ति, तत्रानुस्वारआगमिकश्चशब्दः पुनरर्थः एवंचास्यप्रयोगः-अस्त्यात्मादिवस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति लोके पञ्चास्तिकायात्मके लोक्यते-प्रमीयत इति लोक इतिव्युत्पत्त्या लोकालोकरूपेवा तत् 'सर्व' निरवशेषं द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयारं'ति क्वचित् पठ्यते, तत्र द्वयोः प्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवचेत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासे,
‘जीवच्चेवअजीवच्चेव'त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात्संयुक्तपरत्वेन ह्रस्वः, चकारौ समुच्चयार्थी, एवकाराववधारणे, तेन च रास्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत्, नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एवप्रतीयते, नचदेशोदेशिनोऽत्यन्तव्यतिरिक्त इतिजीवएवासाविति, चेय' इति वा एवकारार्थः 'चियचेय एवार्थ' ति वचनात्, ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मानं यदित्यर्थः तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेषं तथैव ।
अथ त्रसेत्यादिकया नवसूत्र्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति - 'तसे चेवे'त्यादि, तत्र त्रसनामकर्मोदयस्त्रस्यन्तीतित्रसाः-द्वीन्द्रियादयःस्थावरनाकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः-पृथिव्यादयः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org