________________
४४
स्थानाङ्ग सूत्रम् १/-/५४
मू. (५४) अनुत्तरोववाइयाणं देवाणं एगा रयणी उड्डंउच्चत्तेणं पन्नता
वृ.अनुत्तरे' त्यादि, अनुत्तरत्वादनुत्तराणि-विजयादिविमानानि तेषु य उपपातो-जन्मस विद्यते तेषां तेऽनुत्तरोपपातिकास्ते, णंकारौ वाक्यालङ्कारे, देवाः-सुरा एकां रलिं-हस्तं यावत् 'क्रोशंकौटिल्येन नदी तिवदिह द्वितीया, 'उटुंउच्चत्तेणं' तिवस्तुनो ह्यनेकधोच्चत्वम्, उर्द्धवस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वंतदूर्वोच्चत्वमित्यागमे रूढमिति तेनोर्वोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञप्ताः-प्ररूपिताः सर्वविद्भिरिति, अथवाअनुत्तरपपातिकानां देवानामूर्बोच्चत्वेनप्रमाणमितिशेषः, एकारलि;प्रज्ञप्तेति व्याख्येयमिति देवाधिकारादेव नक्षत्रदेवानां।
मू. (५५) अद्दानक्खत्ते एगतारे पन्नते चित्तानक्खत्ते एगतारे पं० सातीनखत्ते एगतारे पं०
वृ. अद्दा नक्खत्ते' इत्यादिना कण्ठ्येन सूत्रत्रणेय तारैकत्वमुक्तम्, तारा च - ज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम् - ॥१॥छ ६ पंच ५ तिन्नि ३ एगं १ चेउ ४ तिगं ३ रंस ६ वेय ४ जुयल २ जुयलं च २।
इंदिय ५ एगं १ एगं १ विसय ५ ग्गि ३ समुद्द ४ बारसगं १२॥' ॥२॥चउरो ४ तिय ३ तिय ३ तिय ३ पंच ५ सत्त ७ बे २ बे २ भवे तिया तिन्नि ३-३-३।
रिक्खे तारपमाणं जइ तिहितुलं हयं कजं ॥' ति, इह चैकस्थानकानुरोधानक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषुतद्वक्ष्यति, यस्तु क्वचिद्विसंवादस्ताराप्रमाणस्य च तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न बाधक इति । तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह -
मू. (५६)एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोग्गला अनंता पन्नतां, जाव एगगुणलुक्खा पोग्गला अनंता पन्नत्ता॥
___ वृ. 'एगप्पएसोगाढे' इत्यादि सुगम, नवरमेकत्रप्रदेशे-क्षेत्रस्यांशविशेषे अवगाढाः-आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण ५-गन्ध २ रस ५ स्पर्श ५ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम् - 'जाव एगगुणलुक्खे' इत्यादि ॥
तदेवमनुगमोऽभिहितः, अधुना कथग्धिप्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोगद्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैगमादयःसप्तनयाः, तेच ज्ञाननये क्रियानयेचान्तर्भवन्तीति ताभ्यामध्ययमिदं विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मिन्नध्ययने ज्ञाननयो ज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः॥१॥ “विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता।
मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् ॥" इत्यत ऐहिकामुष्मिकफलार्थिना ज्ञान एव यलो विधेयइति । क्रियानयस्तुक्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात्, तथा चोक्तम् - ॥१॥ “क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् ।
यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ।।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org