________________
स्थानं - ८, -
४६३ क्रियावादिता चास्य संयमतपसोः पारमार्थिकप्रशमसुखरूपयोः दुःखत्वेनाभ्युपगमात् कारणानुरूपकार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन बाधितत्वात् इति, ५,
तथा समुच्छेद-प्रतिक्षणं निरन्वयनाशं वदति यः स समुच्छेदवादी, तथाहि-वस्तुनः सत्त्वं कार्यकारित्वं, कार्याकारिणोऽपि वस्तुत्वे खरविषाणस्यापि सत्त्वप्रसङ्गात्, कार्यं च नित्यं वस्तु क्रमेण न करोति,नित्यस्यैकस्वभावतया कालान्तरभाविसकलकार्यभावप्रसङ्गात्, नचेदेवंप्रतिक्षणं स्वभावान्तरोत्पत्त्या नित्यत्वहानिरिति, यौगपोनापिनकरोति अध्यक्षसिद्धित्वाधौगपद्याकरणस्य, तस्मात्क्षणिकमेववस्तुकार्यंकरोतीति, एवंच अर्थक्रियाकारित्वात्क्षणिकंवस्त्विति, अक्रियावादी चायमित्थमवसेयः-निरन्वयनाशाभ्युपगमे हि परलोकाभावः प्रसजति, फलार्थिनां च क्रियास्वप्रवृत्तिरिति, तथा सकलक्रियासु प्रवर्तकस्यासङ्घयेयसमयसम्भव्यनेकवर्णोल्लेखवतो विकल्पस्य प्रतिसमयक्षयित्वेएकाभिसन्धिप्रत्ययाभावात्सकलव्यवहारोच्छेदः स्यादतएवैकान्तक्षणिकात् कुललादेः सकाशादर्थक्रिया नघटत इति, तस्मात् पर्यायतो वस्तुसमुच्छेदवद्रव्यतस्तु न तथेति ६,
तथा नियतं-नित्यंवस्तुवदतियःसतथा, तथाहि-नित्यो लोकः,आविर्भावतिरोभामात्रत्वादुत्पादविनाशयोः, तथा अतोऽनुत्पादाच्छराविषाणस्येव सतश्चाविनाशात् घटवत्, नहि सर्वथा घटो विनष्टः, कपालाद्यवस्थाभिस्तस्य परिणतत्वात्, तासांचापारमार्थिकत्वात्, मृत्सामान्यस्यैव पारमार्थिकत्वात्, तस्य चाविनष्टत्वादिति, अक्रियावादी चायमेकान्तनित्यस्य स्थिरैकरूपतया सकलक्रियाविलोपाभ्युपगमादिति ७,
तथा 'नसन्तिपरलोगेवा' इति नेति-न विद्यतेशान्तिश्च-मोक्षः परलोकश्च-जन्मान्तरमित्येवं यो वदति स तथा, तथाहि-नास्त्यात्मा प्रत्यक्षादिप्रमाणाविषयत्वात् खरविषाणवत्, तदभावान्न पुण्यपापलक्षणं कर्म, तदभावान्न परलोको नापि मोक्ष इति, यच्चैतच्चैतन्यं तद्भूतधर्म इति, अस्याक्रियावादिता स्फुटैव, न चैतस्य मतं सङ्गच्छते, प्रत्यक्षाद्यप्रवृत्त्याऽऽत्मादीनां निराकर्तुमशक्यत्वात्, सत्यपि वस्तुनि प्रमाणाप्रवृत्तिदर्शनादागमविशेषसिद्धत्वाच्च, भूतधर्मतापिन चैतन्यस्य, विवक्षितभूताभावेऽपि जातिस्मरणादिदर्शनादिति, एषां चेह वादिनामष्टानामपि दिग्मात्रमुपदर्शितं, विशेषस्त्वन्यतो ज्ञेय ऊह्यो वेति ॥
एते च वादिनः शास्त्राभिसंस्कृतबुद्धयो भवन्तीत्यष्टस्थानकावतारीणि शास्त्राण्याह
मू. (७१३) अट्टविहे महानिमित्ते पं० तं० - भोमे उप्पाते सुविणे अंतलिखे अंगे सरे लक्खणे वंजणे।
वृ. 'अट्टमहानिमित्ते'त्यादि, अतीतनागतवर्तमानानामतीन्द्रियभावानामधिगमे निमित्तंहेतुर्यद्वस्तुजातं तन्निमित्तं, तदभिधायकशास्त्रण्यपि निमित्तानीत्युच्यन्ते, तानि च प्रत्येक सूत्रवृत्तिवार्तिकतः क्रमेण सहलक्षणकोटीप्रमाणानीतिकृत्वा महान्ति च तानि निमित्तानि चेति महानिमित्तानि, तत्रभूमिविकारोभौम-भूकम्पादितदर्थं शास्त्रमपि भौममेवमन्यान्यपि वाच्यानि १, नवरमुदाहरणमिह - ॥१॥ 'शब्देन महताभूमिर्यदा रसति कम्पते।
सेनापतिरमात्यश्च, राजा राज्यं च पीड्यते॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org