________________
४६२
स्थानाङ्ग सूत्रम् ८/-/७१२ अस्याप्यक्रियावादित्वं सामान्यादिरूपतयैकत्वे सत्यपि भावानां सामान्यदिनिषेधेन तनिषेधनादिति, नचसामान्यं सर्वथानास्ति, अभिन्नज्ञानाभिधानाभावप्रसङ्गात्, सर्वथा वैलक्षण्ये चैकपरमाणुमन्तरेण सर्वेषमपरमाणुत्वप्रसङ्गात्, तथाअवयविनंधर्मिणंच विना नप्रतिनियतावयवधर्मव्यवस्थ स्याद्, भेदाभेदविकल्पदूषणं च कथञ्चिद्वादाभ्युपगमनेन निरवकाशमिति २,
तथा अनन्तानन्तत्वेऽपि जीवानां मितान्-परिमितान् वदति-उत्सन्नभव्यकं भविष्यति भुवन'मित्यभ्युपगमात्, मितं वा जीवं-अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमात्रं वा वदति न त्वपरिमितमसङ्खयेप्रदेशात्मकतया अङ्गुलासङ्खयेयभागादारभ्य यावल्लोकमापूरयतीत्येवमनियतप्रमाणतयावा, अथवामितंसप्तद्वीपसमुद्रात्मकतयालोकंवदत्यन्थाभूतमपीति मितवादीति, तस्याप्यक्रियावादित्वं वस्तुतत्त्वनिषेधनादेवेति ३, तथानिर्मितं-ईश्वरब्रह्मपुरुषादिना कृतं लोकं वदतीति निर्मितवादी, तथ चाहु:॥१॥
“आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतय॑मविज्ञेयं, प्रसुप्तमिव सर्वतः॥ ॥२॥
तस्मिन्नेकार्णवीभूते, नष्टस्थावरजङ्गमे ।
नष्टामरनरे चैव, प्रनष्टोरगराक्षसे ॥ ॥३॥
केवलं गहरीभूते, महाभूतविवर्जिते ।
अचिन्त्यात्मा विभुस्तत्र, शयानस्तप्यते तपः।। ॥४॥ तत्र तस्य शयानस्य, नाभेः पद्भ विनिर्गतम् ।
तरुणरविम्डलमनिभं, हृद्यं काञ्चनकर्णिकम् ।। ॥५॥ तस्मिन् पद्धे तु भगवान् दण्डीयज्ञोपवीतसंयुक्तः।
ब्रह्मा तत्रोत्पन्नस्तेन जगन्मातरः सृष्टाः ॥ ॥६॥ अदितिः सुरसङ्घानां दितिरसुराणां मनुर्मनुष्याणाम् ।
विनता विहङ्गमानां माता विश्वप्रकाराणाम्॥ ॥७॥ कद्रुः सरीसृपाणां सुलसा मता तु नागजातीनाम् ।
सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥ इति, प्रमाणयति चासौ-बुद्धिमत्कारणकृतं भुवनं संस्थानवत्त्वात् घटवदित्यादि, अक्रियावादिताचास्य नकदाचिदनीशंजगदितिवचनादकृत्रिमभुवनस्याकृत्रिमतानिषेधात्, न चेश्वरादिकर्तृकत्वं जगतऽस्ति, कुलालादिकारकवैयर्थ्यप्रसङ्ग्रत् कुलालादिवच्चेश्वरादेर्बुद्धिमत्कारणस्यानीश्वरताप्रसङ्गात्, किञ्च-ईश्वरस्याशरीरतया कारणाभावात् क्रियास्वप्रवृत्तिः स्यात्, सशरीरत्वे च तत्शरीरस्यापि कर्वन्तरेण भाव्यं, एवं चानवस्थाप्रसङ्ग इति ४,
तथा सातं-सुखमभ्यसनीयमिति, वदतीति सातवादी, तथाहि-भवत्येवंवादी कश्चित्सुखमेवानुशीलनीयं सुखार्थिना, न त्वसातरूपंतपोनियमब्रह्मचर्यादि, कारणानुरूपत्वात् कार्यस्य, नहि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति अपितु शुक्ल एव, एवं सुखासेवनात् सुखमेवेति, उक्तंच॥१॥ “मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापराह्ने।
द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org