________________
३९०
स्थानाङ्ग सूत्रम् ६/-1५५० ॥१॥ "विषयव्याकुलचित्तो हिमहितं वा न वेत्ति जन्तुरयम् ।
तस्मादनुचितचारी चरति चिरं दुःखकान्तरा॥"
-कषायाः-क्रोधादयस्तेषामप्येवं प्रमादता॥१॥ "चित्तरत्नमसङ्किलष्टमान्तरं धनमुच्यते।
यस्य तन्मुषितं दोषैस्तस्य शिष्टा विपत्तयः॥"
-इति, द्यूत प्रतीतं तदपि प्रमाद एव, यतः॥१॥
"धूतासक्तस्य सच्चित्तं, धनं कामाः सुचेष्टितम् ।
नश्यन्त्येव परं शीर्ष, नामापिच विनश्यति॥" तथा प्रत्युपेक्षणं प्रत्युपेक्षणा, सा च द्रव्यक्षेत्रकालभावभेदाच्चतुर्धा, तत्र द्रव्यप्रत्युपेक्षणा वस्त्रपात्राद्युपकरणानामशनपानाद्याहाराणांचचक्षुर्निरीक्षणरूपा, क्षेत्रप्रत्युपेक्षणाकायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानांमार्गस्य विहारक्षेत्रस्यचनिरूपणा, कालप्रत्युपेक्षणा उचितानुष्ठानकर्णार्थं कालविशेषस्य पालोचना, भावप्रत्युपेक्षणा धर्मजागरिकादिरूपा, यथा॥१॥ "किं कय किंवा सेसं किं करणिज्जं तवं च न करेमि?।
पुव्वावरत्तकाले जागरओ भावपडिलेहणा।।" इति, तत्र प्रत्युपेक्षणायांप्रमादः-शैथिल्यमाज्ञाऽतिक्रमो वा प्रत्युपेक्षणाप्रमादः, अनेनच प्रमार्जनाभिक्षाचर्यादिषु इच्छाकारमिथ्याकारादिषु च दशविधसामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितः, तस्यापि सामाचारीगत्वेन षष्ठप्रमादलक्षणाव्यभिचारित्वादिति।अनन्तरं प्रत्युपेक्षाप्रमाद उक्तः, अथ तामेव तद्विशिष्टामाह
मू. (५५१) छविधा पमायपडिलेहणा पं०(तं०)
वृ. 'छब्बिहे'त्यादि, षड्विधा-षड्भेदा प्रमादेन-उक्तलक्षणेन प्रत्युपेक्षा प्रमादप्रत्युपेक्षा प्रज्ञप्ता, तद्यथामू. (५५२) आरभडा संमद्दा वज्जेयव्वा य मोसली ततिता।
पप्फोडणा चउत्थी वक्खित्ता वेतिया छट्ठी॥ वृ. 'आरभड' गाहा, आरभटा-वितथकरणरूपा, अथवा त्वरितंसर्वमारभमाणस्य, अथवा अर्द्धप्रत्युपेक्षित एवैकत्र यदन्यान्यवग्रहणं सा आरभटा, सा च वर्जनीया सदोषत्वादिति सर्वत्र सम्बन्धीयमिति, सम्म-यत्र वस्य मध्यप्रदेशे संवलिताः कोणा भवन्ति, यत्र वा प्रत्युपेक्षणीयोपधिवेण्टिकायामोवोपविश्यप्रत्युपेक्षतेसासम्म ति,मोसलीप्रत्युपेक्ष्यमाणवस्त्रभागेनतिर्यगूर्ध्वमधो वा घट्टनरूपा 'तइय'त्ति तृतीया प्रमादप्रत्युपेक्षणेति, क्वचिद् 'अट्ठाणट्ठवणा यत्ति दृश्यते, तत्र गुर्ववग्रहादिके अस्थाने प्रत्युपेक्षितोपधेः स्थापनं-निक्षेपोऽस्थानस्थापना, प्रस्फोटना-प्रकर्षेणधूननं रेणुगुण्डितस्येव वस्त्रस्येति, इयं च चतुर्थी,
"विक्खित्तत्तिवस्त्रप्रत्युपेक्ष्य ततोऽन्यत्रयमनिकादौ प्रक्षिपतियत् अथवावस्त्राञ्चलादीनां यदूर्ध्वक्षेपणंसा विक्षिप्तोच्यते ५, 'वेइय'त्तिवेदिकापञ्चप्रकारा, तत्रऊर्द्धवेदिका यत्र जानुनोरुपरि हस्तौ कृत्वा प्रत्युपेक्षते १ अधोवेदिका जानुनोरधो हस्तौ निवेश्य २, एवं तिर्यग्वेदिका जानुनोः पार्श्वतो हस्तौ नीत्वा ३, द्विधावेदिका बाह्योरन्तरे द्वे अपि जानुनी कृत्वा ४, एकतोवेदिका एक जानु बाह्योरन्तरे कृत्वेति ५ षष्ठी प्रमादप्रत्युपेक्षणेति प्रक्रमः, इह गाथे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org