________________
३७८
स्थानाङ्ग सूत्रम् ५/३/५०९
___ इह तु पञ्चस्थानकानुरोधानेदमुक्तं, श्रद्धानशुद्धेन वासगृहीतत्वात्, ज्ञानविशेषत्वात् श्रद्धानस्येति । प्रत्याख्याने च कृते कदाचिदतिचारः सम्भवति, तत्र च प्रतिक्रमणं कर्तव्यमिति प्रतिक्रमणं निरूपयन्नाह -
__ मू. (५१०) पंचविहे पडिक्कमणे पं० तं०-आसवदारपडिक्कमणे मिच्छत्तपडिक्कमणे .. कसायपडिक्कमणे जोगपडिक्कमणे भावपडिक्कमणे।
वृ."पंचविहे' इत्यादि, प्रतीपंक्रमणप्रतिक्रमणं, एतदुक्तंभवति-शुभयोगेभ्योऽशुभयोगानुपक्रान्तस्य शुभेष्वेव गमनमिति, उक्तंच॥१॥ "स्वस्थानाद्यत्परस्थानं, प्रमादस्य वशाद्गतः।
तत्रैव क्रमणं भूयः, प्रतिक्रमणमुच्यते ॥ ॥२॥ क्षायोपशमिकाभावादौदयिकस्य वशं गतः।
तत्रापिच स एवार्थः, प्रतिकूलगमात् स्मृतः॥" इति, इदंचविषयभेदात्पञ्चधेति, तत्रआश्रवद्वाराणि-प्राणातिपातादीनितेभ्यःप्रतिक्रमणंनिवर्त्तनं पुनरकरणमित्यर्थः आश्रवद्वारप्रतिक्रमणं, असंयमप्रतिक्रमणमिति हृदयं, मिथ्यात्वप्रतिक्रमणं यदाभोगानाभोगसहसाकारैर्मिथ्यात्वगमनं तन्निवृत्तिः, एवं कषायप्रतिक्रमणं, योगप्रतिक्रमणं तु यत् मनोवचनकाय्यापाराणामशोभनानां व्यावर्तनमिति, आश्रवद्वारादिप्रतिक्रमणमेवा-विवक्षितविशेषंभावप्रतिक्रमणमिति, आह च॥१॥ “मिच्छत्ताइ न गच्छइ न य गच्छावेइ नानुजाणाइ ।
जमणवइकाएहिं तंभणियं भावपडिकमणं ॥" इति,
-विशेषविवक्षायां तूक्ता एव चत्वारो भेदाः, यदाह॥१॥ "मिच्छत्तपडिक्कमणं तहेव अस्संजमे पडिक्कमणं ।
कसायाण पडिक्कमणं जोगाण य अप्पसत्थाणं ।" इति, भावप्रतिक्रमणंच श्रुतभावितमतेरेव भवतीति श्रुतं वाचनीयं शिक्षणीयं चेत्येतद्द्वयोपदर्शनार्थं सूत्रे
मू. (५११) पंचहिं ठाणेहिं सुत्तं वाएज्जा, तं०-संगहट्ठयातेउवग्गहणट्ठयाते निञ्जरणट्ठयाते सुत्ते वामे पञ्जवयातेभविस्सति सुत्तस्स वा अवोच्छित्तिणयट्ठयाते। पंचहिं ठाणेहिं सुत्तं सिक्खिज्जा, तं०-नाणट्ठयातेदंसणट्टयातेचरित्तट्ठयाते वुग्गहविमोतणट्टयाते अहत्थेवाभावेजाणिस्सामीतिकट्ठ
वृ. 'पंचही'त्यादि सुगम, नवरं सुत्तं श्रुतं सूत्रमात्र वा वाचयेत्' पाठयेत्, तत्र सङ्ग्राहःशिष्याणांश्रुतोपादानंस एवार्थः-प्रयोजनं तस्मै सङ्ग्रहार्थाय सङ्ग्रह एव वाऽर्थो यस्य ससङ्ग्रहार्थस्तद्भावस्तत्ता तया सङ्ग्रहार्थतया श्रुतसङ्ग्रहो भवत्वेषामिति प्रयोजनेनेति भावः अथवैत एव मया सङ्ग्र हीता भवन्ति - शिष्यीकृता भवन्तीति सङ्ग्रहार्थतया, तत्सङ्ग्रहायेति भावः, एवमुप-ग्रहार्थयोपग्रहार्थातयावा, एवं ह्येतेभक्तपानवस्त्राद्युत्पादनसमर्थतयोपष्टम्भिता भवन्त्विति भावः,निर्जरार्थाय-निर्जरणमेवं मे कर्मणां भवत्विति, श्रुतंवा-ग्रन्थो मे' मेवाचयत इति गम्यते 'पर्यवजातं' जातविशेषं स्फुटतया भविष्यतीति, अव्यवच्छित्या नयनं श्रुतस्य कालान्तरप्रापणं अव्यवच्छित्तिनयः एवार्थस्तस्मै इति।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org