________________
३७६
स्थानाङ्ग सूत्रम् ५/३/५०६
केवलं असहायं मत्यादिज्ञाननिरपेक्षत्वात् शुद्धं वा आवरणमलकलङ्करहितत्वात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेः असाधारणं वा अनन्यसदृशत्वात् अनन्तं वा ज्ञेयानन्तत्वात् यथावस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना तच्च तत् ज्ञानं चेति केवलज्ञानं, उक्तं च
119 ||
“केवलमेगं सुद्धं सगलमसाहारणं अनंतं च । पायं च नाणसद्दो नाणसमाणाहिगरणोऽयं " इति,
प्राय इति मनः पर्यायज्ञाने तत्पुरुषस्यापि दर्शितत्वात् । इह च स्वामिकालकारणविषयपरोक्षत्वासाधर्म्यात्तद्भावे च शेषज्ञानसद्मावादादावेव मतिज्ञानश्रुतज्ञानयोरुपन्यास इति, तथाहिय एव मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, “जत्थ मतिनाणं तत्थ सुयनाणं" इति वचनात्, तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य प्रवाहापेक्षया अतीतादिः सर्व एव, अप्रतिपतितैकजीवापेक्षया तुषट्षष्टिसागरोपमाण्यधिकानीति, तथा यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथा च मतिज्ञानमोघतः सर्वद्रव्यादिविषयमेवं श्रुतज्ञानमपि यथा च मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपि तथा मतिज्ञानश्रुतज्ञानभावे चावध्यादिभावादिति, आह च"जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । भावे सेसाई तेणाईएमइसुयाई" इति
119 11
मतिपूर्वकत्वात् श्रुतस्य विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादौ मतेरुपन्यास इति, उक्तं च119 11 "मइपुब्वं जेण सुयं तेणाईए मई विसिट्ठी वा । मइभेओ चेव सुयं तो मइसमनंतरं भणियं " इति
तथा कालविपर्ययस्वाभिलाभसाधर्म्यान्मतिज्ञानश्रुतज्ञानान्तरमवधिज्ञानस्योपन्यासः, तथाहि यावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षया अप्रतिपतितैकसत्त्वाधारापेक्षया च तावानेवावधिज्ञानस्यापि तथा यथैव मतिज्ञानश्रुतज्ञानयोर्विपर्यज्ञाने भवतः एवमिदमपि मिथ्याध्टेर्विभङ्गज्ञानं भवतीति, तथा य एव तयोः स्वामी स एवास्यापि भवतीति, तथा विभङ्गज्ञानिनस्त्रिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भव इति, उक्तं च
–“कालविवज्जयसामित्तलाभसाहम्मओऽवही तत्तो ।"
तथा छद्मस्थविषयभावाध्यक्षत्वसाधर्म्यादवधिज्ञानान्तरं मनः पर्यवज्ञानस्योपन्यासः, तथाहि यथाऽवधिज्ञानं छद्मस्थस्य भवति एवं मनः पर्यायज्ञान मपि, तथा यथाऽवधिज्ञानं रूपिद्रव्यविषयमेवमेतदपितथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथेदमपि, तथा यथाऽवधिज्ञानं प्रत्यक्षं तथेदमपीति, उक्तं च- "माणसमेत्तो छउमत्थविसयभावादिसामन्ना" इति
तथा मनःपर्यायज्ञानान्तरं केवलज्ञानोपन्यासः तस्य सकलज्ञानोत्तमत्वात् तथा अप्ररमत्तयतिस्वामिसाधर्म्यात्, तथाहि यथा मनः पर्यायज्ञानमुत्तमयतेरेव भवति एवमिदमपि, तथा अवसानलाभात्, यो हि सर्वज्ञानानि समासादयति स खल्वन्त एवेदमाप्नोतीति, तथा विपर्ययाभावसाधर्म्यात्, तथाहि-यथा मनः पर्यायज्ञानं सविपर्ययं न भवत्येवं केवलमपीति, उक्तं चअंते केवलमुत्तमजइसामित्तावसाणलाभाओ । एत्थं च मतिसुयाइं परोक्खमियरं च पञ्चक्खं ।।" इति
119 11
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org