________________
स्थानं - ५, - उद्देशकः-३
३७५ वृ. पंचविहे त्यादि, पञ्चेति-पञ्चसङ्ख्या विधाः-भेदा यस्य तत्पञ्चविधं, ज्ञातिर्ज्ञानमिति भावसाधनःसंविदित्यर्थः, ज्ञायतेवाऽनेनास्माद्वेतिज्ञान-तदावरणस्य क्षयःक्षयोपशमोवा, ज्ञायते वाऽस्मिन्निति ज्ञानं-आत्मा तदावरणक्षयक्षयोपशमपरिणामयुक्तो, जानातीति वा ज्ञानं तदेव स्वविषयग्रहणरूपत्वादिति, प्रज्ञप्तं' प्ररूपितमर्थतस्तीर्थकरैः सूत्रतो गणधरैः, उक्तंच॥१॥ “अत्थं भासइ अरिहा सुत्तं गंथंति गणहरा निउणं।
सासणस्स हियट्ठए, तओ सुत्तं पवत्तइ" इति अथवा प्राज्ञात्-तीर्थवारात् प्राज्ञैर्वा प्रज्ञया वा आप्तं-प्राप्तमात्तं वा प्राज्ञाप्तं प्रज्ञाप्तं प्राज्ञाप्तं प्रज्ञाप्तं वा, तद्यथा-अर्थाभिमुखोऽविपर्ययरूपत्वानियतोऽसंशयरूपत्वाद्वेधः-संवेदनभिनिबोधः स एव स्वार्थिकप्रत्ययोपादानादाभिनिबोधिकं, अभिनिबोधेवा भवंतेना वा निवृत्तं तन्मयंत प्रयोजनं वेत्याभिनिवोधिकं, अभिनिबुध्यते वा तत् कर्मभूतमित्याभिनिबोधिकं-अवग्रहादिरूपं मतिज्ञानवमेव, तस्य स्वसंविदितरूपत्वात्, भेदोपचारादित्यर्थः, अभिनिबुध्यते वा अनेनास्मादस्मिन् वेत्याभिनिबोधिकं-तदावरणकर्मामक्षयोपशम इति भावार्थः, आत्मैव वा अभिनिबोधोपयोगपरिणामानन्यत्वादभिनिबुध्यत इत्याभिनिबोधिकं, तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानमिति,
आहच
॥१॥ “अत्याभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो।
सो चेवा भिनिबोहियमहव जहाजोग्गमाजोगं तं तेण तओ तम्मि य सो वाऽभिणिबुज्झए तओ वा तं ।।" इति तथा श्रूयत इतिश्रुतं-शब्द एव, भावश्रुतकारणत्वात् कारणे कार्योपचारादितिभावार्थः, श्रूयते वा अनेनास्मादस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशम इत्यर्थः, आत्मैव वा श्रुतोपयोगपरिणामानन्यत्वाच्छृणोतीति श्रुतं, श्रुतं च तज्ज्ञानं च श्रुतज्ञानम्, आह च
"तं तेण तओ तम्मि य सुणेइ सो वा सुयं च तेणंपि॥" इति ।
तथा अवधीयतेऽनेनस्मादस्मिन्वेत्यवधिः, अवधीयत इत्यधोऽधो विस्तृत परिच्छिद्यते मर्यादया वेत्यर्थः, स चावधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं वा अवधिर्विषयपरिच्छेदनमित्यर्थः, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, उक्तंच॥१॥ "तेणावधीयते तंमि वाऽवहाणंच तोऽवही सोय।
मज्जाया जंतीए दव्वाइपरोप्परं मुणइ" इति, तथा परिः-सर्वतोभावे अवनं अवः अयनं वा अयः आयो वा गमनं वेदनमिति पर्यायाः परि अवः अयः आयो वा पर्यवः पर्ययः पर्यायो वा मनसि मनसो वा पर्यवः पर्ययः पर्यायो वा मनःपर्यवो मनःपर्यवो मनःपर्यायो वा, सर्वतस्तत्परिच्छेद इत्यर्थः, स एव ज्ञानं मनःपर्यवज्ञानं मनःपर्ययज्ञानं मनःपर्यायज्ञानं वा, अथवा मनसः पर्यायाः पर्यया पर्यवा वा भेदा धर्मा बाह्यवस्त्वालोचनादिप्रकाराइत्यर्थस्तेषु तेषांवा ज्ञानं मनःपर्यायज्ञानमनःपर्ययज्ञानमनःपर्यवज्ञानमिति, आह च॥१॥ “पज्जवणं पज्जवणं पजाओ वा मणमिमणसो वा ।
तस्सव पजायादिनाणंमणपजवन्नाणं" इति
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org