SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३३६ स्थानाङ्ग सूत्रम् ५/२/४५१ मित्यर्थः, पर्युषणाकल्पश्च न्यूनोदरताकरणं विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रव्राजनंप्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः उक्तंच 11911 " "दव्वठ्ठवणाSSहारे विगई संथारमत्तए लोए । सच्चित्ते अच्चित्ते वोसिरणं गहणधरणाइ ॥” इति 'दव्वट्ठवण’त्ति निशीथे द्वारपरामर्श इति ।। ज्ञानमेवार्थो यस्य स ज्ञानार्थस्तद्भावस्तत्ता तया ज्ञानार्थतया ज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यदेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तद्ग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया - दर्शनप्रभावकशास्त्रर्थित्वेन, चारित्रार्थतया तु तस्य क्षेत्रस्यानेषणास्त्र्यादिदोषदुष्टतया तद्रक्षणार्थं, तथा 'आयरियउवज्झाए 'त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा 'से' तस्य भिक्षोः 'वीसुंभेज्ज' त्ति विष्वक्- शरीरात् पृथग्भवेत् जायते म्रियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्थाचार्यादेरभावाद् गणान्तराश्रयणार्थं अथवा 'वीसुंभेज 'त्ति विश्रम्भेत तस्य साधोराचार्यादिर्विश्रब्धो भवेत् ततोऽत्यन्तरहस्यकार्यकरणायेति, तथा आचार्योपाध्यायानां वा बहिस्ताद् वर्षा क्षेत्रस्य वर्त्तमानानां वैयावृत्त्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पतं इति उक्तंच 119 11 “असिवे ओमोयरिए, रायदुट्ठे भए व गेलन्ने । नाणाइतिगस्सट् ३ वीसुंभण ४ पेसणेणं च ५ ॥” इति मू. (४५२) पंच अनुग्घातिता पं० तं०- हत्थाकम्मं करेमाणे मेहुणं पडिसेवेमाणे रातीभोयणं भुंजेमाणे सागारितपिंडं भुंजमाणे रायपिडं भुंजेमाणे । वृ. 'अणुघाइय'त्ति न विद्यते उद्घातो-लघूकरणलक्षणो यस्य तपोविशेषस्य तदनुद्घातं यथाश्रुतदानमित्यर्थः तद्येषां प्रतिषेवाविशेषतोऽस्ति तेऽनुद्घातिकाः, 'हस्तकर्म' समयप्रसिद्धं तत्कुर्वाणः, मैथुनम्-अब्रह्म अतिक्रमादिना सेवमानः, तथा भुज्यत इति भोजनं रात्रौ भोजनं रात्रिभोजनं तच्च द्रव्यतोऽशनादि, क्षेत्रतः समयक्षेत्रे कालतो दिवा गृहीतं दिवा भुक्तं दिवा गृहीतं रात्रौ भुक्तं रात्रौ गृहीतं दिवा भुक्तं रात्रौ गृहीतं रात्रौ भुक्तमित्येवं चतुर्भङ्गरूपं भावतो रागद्वेषाभ्यां तद्भुञ्जानोऽश्नन्नित्यर्थः, अत्र दोषाः- “संतिमे सुहुमा पाणा" इत्यादिश्लोकत्रयं, तथा"जइवि हु फासुगदव्वं कुंथू पणगा तहावि दुप्पस्सा । पञ्चक्खं नाणीविहु राईभत्तं परिहरति ॥ जइवि य पिवीलिगाइ दीसंति पईवजोइउज्जोए । तहवि खलु अणाइन्नं मूलवयविराहणा जेणं ।।" || 9 || तथा अगारं गृहं सह तेन वर्त्तत इति सागारः स एव सागारिकः शय्यातरस्तस्य पिण्डःआहारोपधिरूपः, अन्यस्त्वसौ न भवति, उक्तं च 119 11 ॥२॥ “तणछारडगलमल्लगसेज्जासंथारपीढलेवाई । सेज्जायरपिंडो सो न होइ सेहो य सोवहिओ ।" इति, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003307
Book TitleAgam Suttani Satikam Part 03 Sthanang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages596
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sthanang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy