________________
स्थानं-४, - उद्देशकः -४ वाताभ्रलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेव ॥१॥ पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः ।
___ नात्यर्थं मार्गशिरे शीतं पौषेऽतिहिमपातः ॥२॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाडौ ।
अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लबाः स्निग्धाः ।
परिवेषाश्चासकलाः कपिलस्ताभ्रो रविश्च शुभः ॥४॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः।
घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे"
इति, तानेव भासभेदेन दर्शयति- 'माहे'त्यादि श्लोकः । मू. (४०९) चत्तारि माणुस्सीगब्भा पं०-इत्थित्ताए पुरिसत्ताए नपुंसगत्ताते बिंबत्ताए।
वृ.गर्भाधिकारान्नारीगर्भसूत्रंव्यक्तं, केवलं इत्थित्ताए'त्तिस्त्रीतया बिम्बमिति-गर्भप्रतिबिम्बं गर्भाकृतिराह्नवपरिणामो न तु गर्भ एवेति, उक्तञ्च॥१॥ “अवस्थितं लोहितमङ्गनाया, वातेन गर्भ ब्रुवतेऽनभिज्ञाः ।
गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते - गर्भ जडा भूतहृतं वदन्ती"त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह - मू. (४१०) अप्पं सुकं बहुंओयं, इत्थी तत्थ पजातति ।
अप्पं ओयं बहुं सुक्कं, पुरिसो तत्थ पजातति ॥ मू. (४११) दोहंपिरत्तसुक्काणं, तुल्लभावे नपुंसओ।
इत्थीतोतसमाओगे, बिंबंतत्थ पजायति॥ वृ. 'अप्प'मित्यादि, शुक्र-रेतः पुरुषसम्बन्धिओजआर्त्तवंरक्तस्त्रीसम्बन्धियत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो-वातवशेन तस्थिरीभवनलक्षणः
वृ. स्त्रयोजःसमायोगस्तस्मिन् सति बिम्ब 'तत्र' गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम्॥१॥ "अत एव च शुक्रस्य, बाहुल्याज्जायते पुमान्।
रक्तस्य स्त्री तयोः साम्ये, क्लीबः शुक्रा-वेपुनः ॥२॥ वायुना बहुशो भिन्ने, यथास्वं बलपत्यता।
वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः" इति। गर्भः प्राणिनां जन्मनिशेषः स चोत्पादोऽभिधीयते, उत्पादश्चोत्पादाभिधानपूर्वे प्रपञ्चत इति तत्स्वरूपविशेषप्रतिपादनायाह
मू. (४१२) उप्पायपुवस्सणं चत्तारि मूलवत्यू पन्नत्ता
'उप्पाये त्यादि कण्ठ्यं, नवरं उत्पादपूर्व प्रथमं पूर्वाणां तस्य चूला-आचारस्याग्राणीव तद्रूपाणि वस्तूनि-परिच्छेदविशेषा अध्ययनवचूलावस्तूनि ।
मू. (४१३) चउविहे कव्वे पं० तं०-गजे पजे कत्थे गए। वृ.उत्पादपूर्वहिकाव्यमितिकाव्यसूत्रंकण्ठ्यंचैतन्नवरंकाव्यं-ग्रन्थः, गद्यम्-अच्छन्दोनिबद्धं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org